________________
तृतीयोऽध्याय: । श्राद्धं त्वपरपनाख्यं नमस्यर्धदलेऽन्यथा । मौने धनुषि सिंहा न व्रतारम्भ इत्यपि ॥ १२० ॥ माघे मासि न सिंहेज्ये चेति केचिन्न तन्मतम् । जनेऽन्नदानग्रहणं (?) व्रतं कार्य मनीषिभिः ॥ १२१॥ सूतके मतके वाऽपि केचिदार्तव एव च । पूर्व:पूर्वः शुभः कालः सूर्यग्रहणसूतके ॥ १२२ ॥ सोम ग्रहणकालेषु श्लाघ्यः कालः परःपरः । नाद्याधामत्रयादर्वागग्रहणे चन्द्रसर्ययीः ॥ १२३ ॥ विशुद्धमण्डलं दैवावं वा प्रहरत्रयात् । रात्रौ स्नानं न कर्त्तव्यं दानहोमबलिक्रियाः ॥ १२४ ॥ अशिष्ठाजातको हाहयज्ञग्रहणवर्जितम् । मध्यन्दिने पर्वसन्धिस्तत एवमथापि वा ॥ १२५ ॥ यागः म्वदिवसे कार्य: परतश्चेत् परेऽहनि । सन्धिश्चेत् सङ्गवादूर्व प्राक्पर्यावर्तनाद्रवेः ॥ १२६॥ मा पौर्णणमासी विजेया यजकालविधौ विधिः । यागात् पूर्वदिने कुर्यादन्वाधानं द्विजोत्तम ॥ १२७॥ अन्वाधानं तु सङ्कल्पप्राणायामपुरःसरम् । अन्वाधानं पाकहोमं नित्यहोमादनन्तरम् ॥ १२८ । कुर्यान्नैमित्तिकं कर्मानन्तरं नित्यकर्मणः । पर्वण्यौदयिके कुयुः थावणी तैत्तिरीयकाः ॥ १२६॥ वहृचः थवणे कुयुः सस्यसंपत्तिदर्शने ।
Aho! Shrutgyanam