________________
जय लावण्यास नमिता नं.
नयप्रमाणाशितगृढतत्त्वसन्दर्भगर्भितजैनप्रवचनप्रतिपादितार्थजिज्ञासावतां तज्ज्ञानसंपादनाय प्रवचनभाषाज्ञानसम्पादनमावश्यकम् । तज्ज्ञानं च तद्भाषाया व्याकरणं विना यथावदशक्यम् । यद्यपि जनतोपकाराय पूर्वाचार्यैः प्रवचनप्रचारार्थ प्राकृतसंस्कृतगुर्जरभाषासु भाष्यनियुक्त्यवचूरिटीकाबालाक्योधा निर्मिताः । तानि च साधनानि प्रयोधयन्ति प्रवचनानि प्राकृतजनांस्तथापि यद्भाषायां वस्तुस्वरूपं प्रतिपादितं तत्स्वरूपं तभाषायां यथा ज्ञायते न तथा भाषान्तरेषु । ततः प्रवचनभाषाया व्याकरणस्यावश्यकता प्रतीयते।
ननु सन्ति बहून्येल व्याकरणानि-तथाहि-(१)चण्डस्य प्राकृतलक्षणं(२)वररुचेः प्राकृतपकाश:(३)हेमचन्द्रस्य सिद्धहेमसत्काष्टमाध्यायः (४) हृषीकेशनिर्मितप्राकृतव्याकरण (५) त्रिविक्रमलक्ष्मीधरसिंहराजविरचितानि वाल्मीकिसूत्रवृत्तिरूपाणि त्रविक्रमषड्भाषाचन्द्रिकाप्राकृतरूपावताराभिधव्या करणानि (६) वसन्तराजस्य प्राकृतसञ्जीवनी(७)मा.ण्डेयस्य प्राकृतसर्वस्वं (८) भामहस्य षड़भाषाचन्द्रिका(६)दुर्गुगाचायस्य षड्भाषारूपमालिका (१०) षड्भाषामनरी (११) प. इभाषासुबन्तादशः (१२) षड्भाषाविचारः(१३)शेषकृष्णस्य प्राकृतचन्द्रिका (१४)अप्पयदीक्षितस्य प्राकृतमणिदीपः(१५) पाणिनिकृतप्राकृतलक्षणं (१६)प्राकृतमञ्जरी पद्यमयी । एतेषु कामिबिदितानि, कानिचिददितारि, कामिशिदेव.म.दा.
Aho! Shrutgyanam