________________
३२४]
जैन साहित्य संशोधक
[ खंड ३
एवं प्रष्टुमिवाभितः श्रुतियुगं सङ्कुच्य केलोलिनी
कान्तः कुन्तलकैतवादुपयो गाम्भीर्यमन्त्रं तव ॥१६॥ सौरभ्यातिशयेन ते यदि मुखं श्रीसम पद्मं स्फुर
ज्ज्योतिःपाथसि कण्ठनालमभितः पैङ्कन्ति तत् कुन्तलाः। विश्वाहादिविभावशाद् यदि मुखं चन्द्रोऽथ तत्पृष्ठत
स्तत्कान्ता चिक्कुरच्छलेन रजनिः केनाऽत्र नो मन्यते ॥१७॥ स्वामिस्त्वन्नयनाद्भुताद्भुततमश्रीनिर्जिता लज्जया,
न स्थातुं पुरतः क्षमा कुवलयश्रेणिनिलीय ध्रुवम् । माग्मित्रीकृतचन्द्रतोऽप्यतिसुखं द्रष्टुं त्वदीयं मुखं,
प्रान्तस्कन्धशिलोच्चयोपरि समारूढा शिरोजच्छलात् ॥१८॥ नित्यं मानवदेवदानवदृशां व्यूहेन लेह्याऽप्यसौ,
श्रीनाभेय ! भवन्मुखौषधिपतेर्योत्स्ना कथं थीयताम् ? । य(तस्मादत्र जगत्रयीपरिढपान्तद्वये कुन्तल
___ व्याजाद् राजति कृष्णचित्रकलताजालप्रवालावलिः ॥१९॥ आलोक्य त्रिदिवापगां परिलसत्कैलासशैलासना___ऽध्यासीनस्य वृषध्वजस्य शिरसि प्रेसोलनादुन्मदाम् । संहर्षादिव देव ! ते रैविसुता मूर्धानमासेवते,
केशश्रेणिमिषाद वषाकविमलक्ष्माभृत्तटीमण्डनम् ॥२०॥ श्रीशत्रुञ्जय एष कुञ्जरवरः पोद्दामसौदामिनी
श्लिष्टाम्भोदमिषेण हेमखचितप्रत्यङ्गरगद्गुर्डः। तत्रोच्चैस्तरचैत्यकोष्ठकगतो धर्म दधानः प्रभो !,
विश्लिष्यद्वि(प्यन्) विषमेषुमद्भुतगुणं त्वं नाभिभूतो अटः ॥२१॥ दृश्या कुन्तलदम्भतोऽसतटयोस्त्वत्पृष्ठबद्धोल्लस
तूणीरद्वयबाणसंचयशिखासंदोहपिच्छच्छविः । १ कल्लोलिनीकान्तः-समुद्रः । २ " गोभिर्यमत्रं "ज़ । ३ पाथः-जलम् । ४ पङ्कमिवाऽऽचरन्तीत्यर्थः । नामधातुरयम् । ५ विभा-कान्तिः। ६ औषधिपतिः-चन्द्रः । ७ परिवृढः-प्रभुः । ८ योः प्र. ९ त्रिदिवापगा-गंगानदी। १० वृषध्वजः-शिवः । ११ प्रेढोलनं-हिन्दोलनम् । १२ उन्मदा-उन्मत्ता। १३ .रविसुता-यमुनानदीत्यर्थः, सा किल कृष्णजलेति कुन्तलसाम्यम् । १४ वृषाङ्क: ऋषभो जिनः । १५ सौदामिनी- विद्युत् । १६ गुड:-हस्तिपीठगतमास्तरणम् । १७ विषमेषुः-कामः । '
Aho! Shrutgyanam