________________
३२२] जैन साहित्य संशोधक
[खंड ३ गोस्वामिन्नसहाय एव वृषभस्कन्धस्थलीस्थायिनं,
त्वं प्राग्यं बिभराम्बभूविथ महाधुर्यो (यों) युगादौ स्थितः। भारे राज्यरथस्य तत्र भरतस्कन्धार्पिते कुन्तल___ व्याजादंसतटे तव व्रणकिणश्रेणिधुवं दृश्यते ॥३॥ प्रव्रज्यां प्रतिपन्नवत्सल ! जगनाथ ! प्रपद्य त्वया,
किं त्यक्ताऽहमितीव विज्ञपयितुं सम्पोषिता पाया। तद्नेहाम्बुरुहोपजीवनपरा स्वामिन् ! सुवाणिर्भव__कर्णान्ते नि (भृ) ता विभाति चिकुरव्याजेन भृङ्गावलिः॥ ४ ॥ क्षेत्रे श्रीभरतेऽत्र तत्र समये केनाऽप्यतीर्ण पुरा
प्राक् संसारमहार्णवं प्रतरतः स्वामिस्तव स्कन्धयोः । लग्ना शैवलवल्लरी ध्रुवमियं नीलालकालिच्छलात्,
पश्चात्तीर्णवतामियं यदजितादीनां तु न व्यज्यते श्रीमन् ! नाभिनरेन्द्रपुत्र ! भवतो हुन्मध्यभागे सदा,
शुद्धध्यानधनञ्जयस्य दहतः कर्मद्रुमाणां वनम् ।। उन्मील [1] कुटिलालकावलिलताव्याजेन निर्जग्मुषी, __रेजे ध्यामलधूमधोरणिरियं श्रोत्रद्वयद्वारतः क्षीयेऽहं बहिरङ्गवायुपटलेनाऽपि त्वया तु प्रभो !,
यस्याभ्यन्तरवायुरप्यनुचरो योगार्जितं तन्मनः।। तन्मे वायुजयं वदेति जलदः प्रष्टुं कचच्छद्मना,
कर्णान्तः स्थितवान् परोपकरणक्रीडासनीडस्तव ॥७॥ स्वामिन् ! यद् भवता व्रतं केलयता सामायिकास्त्रोर्जितैः,
रागद्वेषमहाभटद्वयपराभूतिः समासूत्र्यते ।। तेनेयं मरुदेविसम्भव ! तव स्कन्धापरिष्टात् कच__ श्रेणी संतनुते प्रशस्तियुगली सख्यं मषीवर्णभाक् ॥८॥ त्रैरत्न-त्रिपदी-त्रिकालविषयज्ञान-त्रिलोकाद्भुत
स्वामित्वप्रभृतिच्छदत्रयभूतः सद्ब्रह्मवृक्षस्य ते । १ धनञ्जयः-अग्निः । २ सनीड:-व्यसनी। ३ कलयता-स्वीकुर्वाणेन। ४ त्रैरत्न-शानदर्शनचारित्रात्मकम् । ५ त्रिनदी-' उप्पन्ने इ वा विगमे इ वा धुवे इ वा' इतिरूपा। ६ त्रिकालाविषयं शान-अतीतानागतवर्तमानकालीनं ज्ञानम् |
Aho! Shrutgyanam