________________
अंक २]
महोपाध्याय श्री यशोविजयगाण लिखित फलाफल विषयक प्रश्नपत्र
[१६३
॥श्री आदिनाथ ॥१॥ १ शीघं सफला कार्यसिद्धिर्भविष्यति २ अस्मिन्व्यवहारे मध्यमं फलं दृश्यते ३ ग्रामांतरे फलं नास्ति कष्टमस्ति ४ भव्यं स्थानसौख्यं भविष्यति ५ मध्यमं देशसौख्यं भविष्यति ६ अल्पा मेघवृष्टिः संभाव्यते
॥ श्री अजितनाथ ॥२॥ १ प्रचुरा मेघवृष्टिर्भविष्यति २ मध्यमफला कार्यसिद्धिर्भविष्यति ३ अस्मिन्विवाहे लाभो नास्ति ४ सकुशलं सलामं ग्रामांतरं भविष्यति ५ स्थानसौख्यं भविष्यति ६ महद्देशसौख्यं भविष्यति
॥श्री शंभवनाथ ॥३॥ १ भव्यं देशसौख्यं भविष्यति २ मध्यमा मेघवृष्टिर्भविष्यति ३ कार्यसिद्धिरास्त फलं नास्ति ४ सलाभो व्यवहारो भविष्यति ५ ग्रामांतरे मध्यमं फलं भविष्यति ६ महातं स्थानसौख्यं भविष्यति
॥श्री अभिनंदन ॥४॥ १ भव्यं स्थानसौख्यं भविष्यति २ देशसौख्यं मध्यमं भविष्यति ३ प्रजाभाग्येन मेघवृष्टिर्भविष्यति ४ सुंदरा कार्यसिद्धिर्भविष्यति ५ मध्यमं फलं व्यवहारे भविष्यति ६ ग्रामांतरे कष्टं न च फलं
॥श्री सुमतिनाथ ॥५॥ १ सकुशलं सफलं ग्रामांतरं भविष्यति २ स्थानसौख्यं मध्यमं भविष्यति ३ देशसौख्यं न दृश्यते ४ प्रचुरा मेघवृष्टिविष्यति ५ कार्यसिद्धिरस्ति फलं च नास्ति ६ व्यवहारो निष्फलो हानिकरः
॥श्री पद्मप्रभस्वामि ॥६॥ १ व्यवहारः सलाभो भविष्यति २ मध्यमं ग्रामांतरं भविष्यति ३ स्थानसौख्यं सर्वथा नास्ति ४ भव्यं देशसौख्यं भविष्यति ५ मध्यमा मेघवृष्टिर्भविष्यति ६ न च कार्यसिद्धिनच फलं
॥श्री सु] पार्श्वनाथ ॥७॥ १ व्यापारो महालाभप्रदः २ सेवकः सुन्दरो भविष्यति ३ सेवाफलं सर्वथा नास्ति ४ चतुःपदानां महान् वृद्धिर्भविष्यति ५ भयं यास्यति परं द्रव्यहानिः ६ व्याजे दत्त पुनरपि हस्ते न चटिष्यति
॥श्री चन्द्रप्रभस्वामि ॥८॥ १ दत्तं सविशेषलाभं भावि २ व्यापारे लाभो न च हानिः ३ सेवकोयमर्थाय भविष्यति ४ सेवा कृता महालाभकारी भविष्यति ५ चतुः [प] लाभो मध्यमो भविष्यति ६ भयं विधेयं धर्मः कार्यः
Aho! Shrutgyanam