________________
अंक १]
Herefa youदन्त और उनका महापुराण
सुरपति मुकुटकोटिमाणिक्यमधुवतचक्रचुंबितम् । विलसदणुप्रतापनिर्मलजलजन्मविलासकोमलं घटयतु मंगलानि भरतेश्वर तव जिनपादपंकजम् ॥ २४ हिमगिरिशिखरनिकरपरिपंडुरधवलियगगनमण्डलं पुलकमिवातनोति केतकतरुवरतरुकुसमसंकटे । विकसितपणिफणासु सुरसरितामणिरुचिगतमधःक्षितेरिदमतिचित्रकार भरतेश्वर जगतस्तावकं यशः ॥ २५ उन्नतातिमनुमात्रपात्रता भाति भद्र भरतस्य भूतले । काव्यकीर्तिघट | वो गृहे यस्य पुष्पदंतो दिशागजः ॥ २६ घनधवलताश्रयाणामचलस्थितिकराणां मुहुर्भ्रमताम् । गणनैव नास्ति लोके भरतगुणानामरीणां च ॥ गुरुधर्मोद्भवपाचनमभिनंदितकृष्णार्जुनगुणोपेतम् भीमपराक्रसारं भारतमिव भरत तव् चरितं ॥ २८ मुखमलिनोदरसद्मनि गुणहृतहृदये सदैव यद्वसति । चित्रमिदमत्र भरते शुक्लापि सरस्वती रक्ता ॥ २९ तंत्रीवाद्यैरनिधैर्वर कविरचितैर्गद्यपद्यैरनेकैः,
२७
।
कांतं कुंदावदातं दिशि दिशि च यशो यस्य गतिं सुरौधैः । काले तृष्णाकराल कलिमलकलितेप्यद्य विद्याविनोदो सायं संसारसारः प्रियसखि भरतो भाति भूमण्डलेऽस्मिन् ॥ ३ बंभंडाहंडलखोणिमंडलुच्छलियकित्तिपसरस्स । खंडस्स समं समसीलियाए कइयो ग लज्जति ॥ ३३ विनयांकुर सातवाहनादौ नृपचक्रे दिवमीयुषि क्रमेण ।
भरत तव योग्य सज्जनानामुपकारो भवति प्रसक्त एवं ॥ ३४ तीव्रापद्दिवसेषु बन्धुरहितेनैकेन तेजस्विना
सन्तानक्रमतो गतापि हि रमाकृष्टा प्रभोः सेवया । यस्याचारपदं वदंति कवयः सौजन्यसत्यास्पदं सोऽयं श्रीभरतो जयत्यनुपमः काले कलौ सांप्रतम् ॥ ३५ इति भरतस्य जिनेश्वर सामायिकशिरोमणेर्गुणान्वक्तुम् । मातुं च वार्द्धितोयं चुलुकैः कस्यास्ति सामर्थ्यम् ॥ ५६ श्रत्र प्राकृतलक्षणानि सकला नीतिः स्थितिभ्छन्दसामर्यालंकृतयो रसाश्च विविधास्तत्त्वार्थनिर्णीतयः । किंचान्यद्यदिहास्ति जैनचरिते नान्यत्र तद्विद्यते देवे तो भरतेश - पुष्पदसनौ सिद्धं ययोरीदृशम् ॥ ६३ बन्धुः सौजन्यवाद्धैः कविखलधिषणाध्वांतविध्वंसभानुः प्रौढालंकार सारा मलतनुविभवा भारती यस्य नित्यम् । वक्त्रांभोजानुरागक्रमनिहितपदा राजहंसीव भाति प्रोद्यगंभीरभावा स जयति भरते धार्मिके पुष्पदन्तः ॥ ६४ श्रीखंडोडुमरा रुचडमरुकं चंडीशमाश्रित्य यः कुर्वन्काममकांडतांडवविधिं डिंडीरपिंडच्छविः । हंसा उंबर मुंडमंडल लसद्भागीरथीनायकं
१ यही पद्य २७ वें परिच्छेद में भी दिया है । २ यही पद्य ८८ वें परिच्छेद में भी है । ३ यही पद्य ४० वें परिच्छद में भी है । ४ पूने की प्रति में यह पद्य तेरहवें परिच्छेद में भी लिखा है ।
Aho ! Shrutgyanam