________________
उपकेशगच्छीया पट्टावलिः ॥ श्रीरत्नप्रभसूरिस्तोत्रम् ॥
॥ श्रीमद्रत्नप्रभसूरिसद्गुरुम्यो नमः ॥ वामेयपट्टे शुभदत्तनामा तच्छिष्यजातो हरदत्तमुख्यः । आर्याबुधिः केशी स्वयंप्रभोपि सूरीशरत्नप्रभलब्धिपात्रः ॥ १॥ भव्यावलीकमलकाननराज गं श्रियःप्रवृत्तिमुनिमानसराजहंसं ॥ श्रीपार्श्वनाथपदपंकजचंचरीकं रत्नप्रभं गणधरं सततं स्तवीमि ॥२॥ विद्याधरेंद्रपदवीकलितोपि में श्रीमत्स्वयंप्रभुगिरः परिपीय योत्र । दीक्षावधुमुदवहन्मुदमादधानो रत्नप्रभस्स दिशतात्कमलाविलासं ॥ ३ ॥ मंत्रीश्वरोहडसुतो भुजमेन दष्टः संजीवितः सकललोकसभासमक्षं । यस्यांघ्रिवारिरुहपुष्करसिंचनेन रत्नप्रभस्स दिशतात्कमलाविलासं ॥ ४ ॥ मिथ्यात्वमोहतिमिराणि विधूय येन भव्यात्मनां मनसि तिग्मरुचेव विश्वे । संदर्शितं सकलदर्शनतत्त्वरूपं रत्नप्रभस्स दिशतात्कमलाविलासं ॥५॥ येनोपकेशनगरे गुरुदिव्यशक्त्या कोरंटके च विदधे महती प्रतिष्ठा । श्रीवीरबिंबयुगलस्य वरस्य येन रत्नप्रभस्स दिशतात्कमलाविलासं ॥ ६ ॥ श्रीसत्यिकाभगवती समभूत्प्रसन्ना सर्वज्ञशासनसमुन्नतिवृद्धिकी । यद्देशनारसरहस्यमवाप्य सम्यक् रत्नप्रभस्स दिशतात्कमलाविलासं ॥ ७ ॥ गृह्णति यस्य सुगुरोर्गुरुनाममंत्रं सम्यक्त्वतत्त्वगुणगौरवगर्भितं ये । तेषां गृहे प्रतिदिनं विलसंति पद्मा रत्नप्रभस्स दिशतात्कमलाविलासं ॥ ८ ॥ कल्पद्रुमः करतले सुरकामधेनु-श्चितामाणः स्फुरति राज्यरमाभिरामा । यस्योल्लसत्क्रमयुगांबुजपूजनेन रत्नप्रभस्स दिशतात्कमलाविलास ॥ ९ ॥
इत्थं भक्तिभरेण देवतिलकश्चातुर्यललिागुरोः श्रीरत्नप्रभसूरिराजसुगुरोः स्तोत्रं करोति स्म यः । प्रातः काम्यमिदं पठत्यविरतं तस्यालये सर्वदा ।
सानंदं प्रमदेव दीव्यतितरां साम्राज्यलक्ष्मीः स्वयं ॥ १० ॥ इति ओएसनगरे सपालक्षश्रावकाः प्रतिबोधिता ओएसवालज्ञातिः स्थापिता तस्य स्तोत्रमिदं
प्राताख्यान पद्धतौ प्रत्यहं पठनीयं ॥ संपूर्ण ॥ ग्रंथाग्रंथ ॥ ३१५ ॥ श्रीरस्तु ॥
Aho ! Shrutgyanam