________________
ज्ञान-प्रदीपिका।
अथ आरूढ़छत्रः
अथ वक्ष्ये विशेषेण ग्रहाणां मित्रनिर्णयम् । भौमस्य मित्र शुक्रज्ञौ भृगोर्शाराकिमन्त्रिणः॥१॥ अंगारक बिना सर्वे ग्रहमित्राणि मंत्रिणः । आदित्यस्य गुरुमित्र शनेविद्गुरुभार्गवाः ॥२॥ भास्करेण बिना सर्वे बुधस्य सुहृदस्तथा । चंद्रस्य मित्र जीबज्ञो मित्रवर्ग उदाहृतः॥३॥ सिंहस्याधिपतिः सूर्यः कर्कटस्य निशाकरः । मेषवृश्चिकयो मस्तुलावृषभयोस्सितः ॥४॥ धनुर्मानयोर्मन्त्री तुलावृषभयो गुः । शनेमकरकुम्भौ च राशीनामधिपास्स्मृताः ॥ ५ ॥ धनुमिथुनपाठीनकन्योक्षाणां शनिः सुहृत् । रविश्वापान्त्ययोरारः तुलायुग्मोक्षयोषिताम् ॥ ६॥ कन्यामिथुनयोस्सौम्यश्शनिर्मकरकुम्भयोः ॥ धीषणो मीनधनुषोस्सिंहस्य दिनकृत्पतिः ॥७॥ कुलीरस्य निशानाथः क्षेत्राधिपतयः क्रमात् । कोदण्डमीनमिथुनकन्यकानां शशी सुहृत् ॥८॥ बुधस्य चापनक्रालिकमंजोततुलाघटाः ।। क्रियामिथुनकोदण्डकुम्भालिमकरा भृगोः ॥६॥ गुरोः कन्यातुलाकुभमिथुनोक्षमृगेश्वराः । राशिमैत्र ग्रहाणाञ्च मैत्रमेवमुदाहृतम् ॥१०॥ सूर्येन्द्रोः परिर्जीवा धूमशशनिभोगिनाम् । शकचापकुजणानां शुक्रस्योच्चास्त्वजादयः ॥११॥ अत्युच्च दशमं वह्निर्मनुयुक् च तिथीन्द्रियैः। सप्तविंशतिक विशद्भागाः सप्तग्रहाः क्रमात् ॥१२॥ बुधस्य वैरी दिनकृत् चन्द्रादित्यौ भृगोरी। भौमस्य रिपबोभानोविना जीवं परेऽरयः ॥१३॥ गुरुसौम्यौ विना चेन्दो रवीन्द्ववनिजा प्रहाः। बृहस्पते रिपुभीमः सितचंद्रात्मजौ विना ॥१४॥ शनेश्च रिपवः सर्वे तेषां तत्तद्ग्रहाणि च
Aho ! Shrutgyanam