________________
पूर्वकृदन्तप्रकरणम् ।
१२७
यमो नास्तीत्यर्थः । अयम्भावः, सूत्रेऽनिरोधग्रहणसद्भावे सामर्थ्यादनिरोधरूपार्थकादेव वृडो यति वयति सिद्धम् । अनिरोधग्रहणाऽभावे तु विनिगमकाऽभावेन वृवृक्षोरुभयोरपि ग्रह. णापत्त्या ततो यदापत्तिरित्येतध्वनयन्नाह-वृत्यान्येति । ननु 'एतिस्तुशास्' इत्यत्र वृ. अग्रहणे सामर्थ्यान्नास्य तत्राग्रहणमिति चेन्न । अत्रत्यवृज ग्रहणस्य पुसि चरितार्थत्वात् । तत्र सूत्रेऽवद्यादीनि निर्विभक्तिकानि नतु द्वन्द्वः, तेन वयेति स्त्रियामेव विधीयते । अस्त्रियां तु वृङः 'ऋहलोर्ण्यत्। वार्या ऋत्विजः। सूत्रे द्वन्द्वाभिप्रायेण सुग्रीवो मम वोऽसावित्या. दयः प्रयोगा बोध्या इत्यलम् ॥ ___वदः सुपि क्यप् च । ननु लः कर्मणीत्यनेन यथा सकर्मकेभ्यः कर्मणि कर्तरि ल. कारविधानादकर्मकेभ्यो भावे कर्तरि च, तथा 'तयो रेव कृत्यक्तखला' इत्यनेनापि सकमकेभ्यः कर्मणि कर्तरि कृत्प्रत्ययविधानादकर्मकेभ्य एव भावे तद्विधानमिति सिद्धान्तात्सकर्मकधातुभ्यो भावे कृत्प्रत्ययविधानं दुर्लभमित्यत आह-भाव इत्यपकृप्यत इति । ___ ननु भुवो भावे इत्यत्राऽनुपसर्ग इत्यनुवर्त्य निरुपसर्गस्य भवतेरकर्मकत्वात् तयोरेवेति सूत्रेण भाव एव कृत्यप्रत्ययसिद्धौ भावग्रहणं व्यर्थमिति चेन्न, तस्योत्तरार्थत्वेन सार्थक्यस्य भाष्येऽभिहितत्वात् । एतद्भाष्यमतानुयायिमतं प्रदर्शयति-कर्मणि प्रत्ययावित्येके इति ।
ननु सूत्रे सामान्यरूपेण वृशब्दोपादानावृवृङो ग्रहणं स्यादत आह-वृइति वृओ ग्रहणं न वृङ इति । ईडवन्द इति सुत्रज्ञापकान्न वृडो ग्रहणमिति तदर्थः । तत्र हि ईडवन्द साहचर्यादात्मनेपदिनो वृङ एव ग्रहणम् , अत्र वृलो ग्रहणे तु तत्र वृग्रहणं व्यर्थ स्यादिति भावः,
पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्थेति । 'ओरावश्यके' इति विहितस्य ग्यतोऽवकाशः आवश्यकविवक्षायां लाव्यमति, क्यपोऽवकाशः स्तुत्य इति, अवश्यस्तुत्य इत्यादौ द्वयोः प्राप्तो विप्रतिषेधसूत्रबलेन परत्वाण्ण्यत् स्यादतस्तद्वयावृत्यर्थं पुन: क्य. बुक्तिरिति भावः ।
इचेति ह्रस्वः सुपठ इति । इत्थं हि दीर्घपठतः सूत्रकारस्याऽभिप्रायः, इ इ इति प्रश्लेषाद्वितीय इकारो 'ये विभाषेत्यात्वबाधनाय, अन्यथा ये इति विषयसप्तमी तेन यका. रादौ प्रत्यये बुद्धिस्थ एव प्राप्तस्याऽऽन्तरङ्गत्वेन क्यपा सह विधानादिकारस्य बहिरङ्गत्वे. नात्वं दुर स्यादिति । दीर्घस्य प्रत्याख्यानं कुर्वतो भाष्यकर्तुस्त्वयम्भावः, क्यप्सन्नियोगशिष्टत्वादित्वमन्तरङ्गम् , ये इति परसप्तम्याश्रयणादात्वं बहिरङ्गम् , तथा च युक्त ए. वाऽऽत्वस्येत्वेन बाधः, न च हस्वादेशे 'षत्वतुकोरिति गुणस्यासिद्धत्वे तुगिति वाच्यम् , पदान्तपदाद्योरेवैकादेशस्याऽसिद्धत्वात् , एतदनङ्गीकारे वृक्षेच्छत्रमित्यत्र नित्यतुगापत्तिः, इष्टस्तु वैकल्पिक इतिप्राञ्चः । शेखरकृतस्तु ये विभाषेत्यत्र ये इति विषयसप्तमीत्वेऽपि जनादिसाहचर्येण यादिप्रत्ययोत्पत्तिपूर्वकाले नान्तरस्यैवात्वविधानेन क्यबुत्पत्तेः प्रा. मेवेत्वेनाऽत्र तदप्राप्त्या नस्यत्वे आद्गुणेन रूपसिद्धः, एतत्क्लेशवारणायैव दीर्घोच्चारणमित्याहुः ॥
ननु 'भृतोऽसंज्ञायामित्यत्राऽसंज्ञाग्रहणसत्वेन तत्रैव क्यपो विधानाद्भार्या वधूरित्यत्र संज्ञायामेतदप्राप्तावपि संज्ञायां क्यविधायकेन 'संज्ञायां समजनिषदनिपते' त्यनेन क्यप्
Aho! Shrutgyanam