________________
श्रीगोकुलेश्वरप्रीत्यै तदीयजननोत्सवे । श्रीहरिकृष्णदासेन सदानन्दाभिलाषिणा ॥ विक्रमीय-युगवसुनवेन्दुमितशरदि सुतारे स्थापितमिह शुभसहसि शुक्ल इनतिथिगुरुवारे । श्रीहरिकृष्णनिबन्धभवनमिति मणिमालाया ग्रन्थनाय बुधजनविनोदमतिमङ्गलदायाः ॥
श्री हरिः शरणम्
मुक्तावली। विदांकुर्वन्तु विद्वांसो यन्मुक्तावलीमयूखनामकं न्यायसिद्धान्तमुक्तावल्या व्याख्यानं न्यायव्याकरणाचार्यसाहित्योपाध्यायपदवीभृता काशीस्थ जो. म. गोयनकासंस्कृतमहाविद्यालय व्याकरणाध्यापकेन मीमांसक. शिरोमणिना श्रीसूर्यनारायणशर्मशुक्लेन विरचय्य प्रत्यक्षखण्डान्तं भागं परीक्षार्थिनां छात्राणामनुरोधेन झटिति प्रकाशितवानस्मि । इदं व्याख्यानं दिनकरीमपहाय सर्वाण्यपि व्याख्यानानि अतिशय्य वर्तत इति कथनं नासम्भवदुक्तिकम् , तथापि--
अापरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।। इति कालिदासोक्तिमनुसन्धाय विरमामि ग्रन्थगौरवप्रदर्शनात् । अवशिष्टमपि मुक्तावलीमयूखं झटिति परीक्षकाणां मनोविनोदाय प्रक. टीकृत्य भवतां सेवां विधास्ये इति । प्रत्यक्षखण्डान्तभागस्य मूल्यम् ॥=) दश प्राणकाः
सर्वविधपुस्तकप्राप्तिस्थानम् --- श्रीहरिकृष्णनिबन्धभवनम् ,
बनारस सिटी।
Aho! Shrutgyanam