SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ( ८१ ) भङ्ग विद्धवनिताभिरकीर्तिराशिम् । यात्रोद्भवं व्यसनमूर्जितकुक्षिरोगं शोकोदयश्च विरहं स्वजनैः क्षणेन ॥ ३ ॥ पालेयरश्मिसमये सुरपूजितोऽयं स्वस्त्रीसहायतनयोद्भवभीतिजातम् । स्थानापयानमवबुद्धिमनर्थजालं प्राणासयव्यसनमप्यपनेतुमिष्टे ॥ ४ ॥ सौम्यः करोति जनकस्य दशासु हर्ष द्रव्योद्भवञ्च वपुषो गुरु गौरवश्च । विद्भिर्विवादमपकृद्विजयीच तत्र बन्धुक्षयञ्च विषये च विषादजालम् ॥ ५ ॥ भौमः करोति शशलाञ्छनकालयोगी भोगोन्नतिञ्च कलहेन च तत्र हानिम् । रक्तश्रुतिञ्च सुतसम्मतवस्तुनाशं खेदश्च दासशिशुनीचजनोपनीतम् ॥ ६ ॥ मन्दो निशाकरदशोपगतः करोति दैन्यश्च भिक्षुजनसङ्गमनङ्गनार्तितम् । जाल्मैश्च मैत्रिमथपापरताञ्च बुद्धिं किश्चिद्दसुद्भवमथा स्थिरताञ्च तस्य ॥ ७ ।। इति चन्द्र दशा। -- - शुक्रः स्वकालमुपगम्य महोदयञ्च सन्मित्रलाभमरिनाशमभिष्टसिद्धिम् । प्रख्यातिमंशुकधनाभरणादिलाभं १प्रानन्यय। Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy