________________
रूपोन्नताः युवतयश्च कुशीलवाश्च ।। २५ ॥ वर्गस्तूत्तरफाल्गुणो नियमितो लङ्कापुरी कोङ्कणः स्वर्णानाम नदी महेन्द्रमलयः शैलोच्चयो दर्दुरः । ग्रामादासपुराश्च केरलभुवो ये कर्णतालाकटाः प्लाक्षादुर्ध्वनिनश्च सौम्य नियमाः पापाण्डशास्त्राश्रया :२६ हस्तक्षस्य हि चित्रकूटशिखरी कर्णाटराष्ट्रम्महाराष्ट्र कोलगिरिश्च चोलविषया नेलूरसूर्यादयः । क्रौञ्चद्वीपमधेस्य शृङ्गशिखरी वैदृर्यमुक्ताकरा स्वाम्बष्टो गजवाहनाश्च रजकाः फल्गूनि धान्यानि च २७ चित्रायाम्बलदेव पत्तनभुवः कच्चोलकाः सिंहलाः वेदण्डाटविचीयपत्तनजनाः येताम्रवर्णाश्रयाः। भद्राख्याश्च किलासनागजदरी ग्रामाश्चबिल्वद्रुमाः रत्नालङ्कतिरागलेख्यगणितंख्याताश्च सौगन्धिकाः २८
स्वातेस्तु वर्गः खलु पल्लवाख्याः काम्बोजसौवीरवधूमुखाश्च । तुरङ्गसारङ्गविहङ्गमाश्च निःसत्वसत्वास्तरुरज्जुनश्च ॥ २९ ॥ वर्गो विशाखामु किरातशूद्र पाषाण्डदेशायवनाश्च मेनाः । वैकङ्कतद्रुश्चनमाष मुद्गा भक्तो महेन्द्रो नलदैवयोश्च ॥ ३० ॥ वर्गोनुराधानियतः सुराष्ट्र हेमाद्रिकालामलरैवताश्च । सन्तः शरत्सस्य सुदारशूर
Aho! Shrutgyanam