________________
-:
:
( १८७ ) स्यात्सर्चकर्मक्रयञ्चवरोभिषेके ॥ चण्डौ मकण्णावनलौ विनिष्टौचान्तःसनासार्द्ध शशीवचण्डम् ।। हुंफट् शिरोऽन्तो मनुषहन्याद्वालग्रहान् क्लुप्तजपादिकर्म ।। तारालुयुग्ममुदकं शिर एभिरनेः शक्तित्रता च शिशुना चवती शशाङ्के । अर्द्धन्दुकैबहिरधोवदनैः परीतचक्रं तदाशु शिशुरोदनमुक्षिणोति ॥ ९२ ।।
__ इतिबालग्रहविधिः । ब्राह्मणे द्वादशे क्षात्रो दशमेऽहनि जन्मतः । वैश्यस्तु षोडशे शूद्रो द्वात्रिंशे नाम कारयेत् ।। ९३ ।। उत्तराशुश्रविष्टायां रेवतीहस्तयोरपि । मूलवारुणिपुष्येषु श्रवणादिसयोरपि ॥ ९४ ॥ रोहिणीस्वातिमैत्रेषु सोत्सवं नाम कारयेतू । उक्तावधिव्यतिक्रान्तौ सहान्नमासनेन वा ।। ९५ ॥ विदोषास्तिथयःशस्ताः सौम्यवारोदयादयः । द्वादशस्थानगा नेष्टाः सर्वे स्युर्नामकर्मणि ॥ ९६ ॥ राशयस्तु स्थिरश्रेष्टाः द्विस्वभावाः शुभैर्युताः। शिष्टास्तु सशुभाश्चापि नेष्टाःस्युर्नामकर्मणि ॥ ९७ ॥ त्रिषडायगताः पापाश्चन्द्रो लग्नगतःशुभः । शुक्रो भवो गुरु केन्द्रे व्ययं शुद्धञ्च शोभनम् ॥ ९८ ॥
मेषादिषट्सु युगलोकधनं जयाग्नि रामद्विकाश्चरगताः कथिताः क्रमेण । काद्यास्तुलादिषु च पञ्चसु पञ्चवर्गाः याद्या भवन्ति लिपयश्चरमे च राशौ ॥ ९९ ॥
१ सेवती।
Aho! Shrutgyanam