________________
( १४२ )
काकारुणकपोतादिर्यमाराहति निर्भयम् । सलिले चक्रचापं वा यः पश्येन स जीवति ॥ १३१ ॥ ऊर्ध्वार्द्धश्चक्षुषोभ मर्दे न्यत्र न दृश्यते । ज्योतिश्चेत्पत्रिकेद्वयेकमासिकं तस्य जीवितम् ॥ १३२ ॥ दर्पणे वा जले रूपं विकृतं यत्समीक्ष्यते ।
यस्याङ्गं शवगन्धं वा मासार्द्धं तस्य जीवितम् ॥ १३३ ॥ कर्णौष्टौ चलितस्थाना यस्य वक्रा च नासिका । कृष्णजिह्वा चलो मेरुः षट्सप्ताहं स जीवति ॥ १३४ ॥ जिह्वाग्रं दृष्टपूर्वी यो न पश्येत् सः त्रिसश्चिकः । रुद्धश्चवाः कर्णघोषं नश्चवन्नाशु गच्छति ॥ १३५ ॥ द्विधावे जले दीपशान्तेर्निर्गन्धतस्तथा । अङ्गुष्टगुल्फयोर्मध्ये मणिबन्धध्वजादिषु । वायोरस्फुरणं मृत्युः प्रांशुवर्षाच्च पृष्ठतः ॥ १३६ ॥ द्विधा वा दृश्यते दीपो ज्वालायार्धस्तथापि वा । यस्यैव प्रतिभागः स्यात् तस्य मृत्युः पुरः स्थितः ॥१३७॥ षट्त्रयद्रये कमासार्द्धमासपञ्चाहजीवितः । नष्टम्यूर्वादिदिवनं छिद्रितं धूमसंकुलम् ॥ १३८ ॥ भाति विम्बं क्रमाद्भानो रायुर्ज्ञात्वैव चात्मनः । दानं क्षेत्रप्रवेशादि कुर्य्यात्सकर्म्मधीधनः ॥ १३९ ॥ इति जीवोपद्रवादेशः ।
1
सितेन्दुयुक्तेषु तदीक्षितेषु वा कुलीरगौ तौलिषु जायते नृणाम् । कुमारिकालाभ इतिप्रचक्षते परासराद्याः प्रथमे महर्षयः । १४० ॥
१ मर्द्दन्यत्रनिर्द्दिश्यते ॥ २ द्रष्ट || ३ लिङ्गाप्लवे । द्विहाप्लवे । ४ स्थिताः ॥
Aho! Shrutgyanam