________________
( २ ) संहृत्य तत् प्रथममत्र विभावयामि सङ्ख्यान संस्करणनिर्णययुक्तियुक्तम् ॥ ४ ॥ अब्दं द्विधाकेलय्यामूर्ध्वस्थं वर्द्धयेत् सुखैः । धीरनागैरेधोन्यस्तं नदीतीर्थेन भाजयेत् ॥ ५ ॥ लब्धं दिनादिकं मूर्ध्नि दत्वा तत्तत्परादिकम् । free कोमलनामानि मासवाक्यानि पूरयेव ॥ ६ ॥ विशुद्धनिधिपातः । विमर्दनपुरस्त्री । कुशान्धयखरोरुः । वशीतिलक रुद्रः । शिवाब्धिबुधपुत्री । नेयाम्बुनीषुयात्रा | नयाम्बुनवपूरः । दिवानवरिपुत्री । दशाङ्गनरकारी । प्रवीरगुरुयन्त्रः । विवासनविकारी । मृगाकुलीत पोखी । रवेरजटहादितः प्रभृति मासवाक्यानि ॥
नाभिना सर्व्वमास नीचाप्तमुपरिक्षिपत् । लीनेनोर्ध्वस्थमाहृस घटिकादिञ्च साधयेत् ॥ ७ ॥ दिनानि दद्याच्छुक्रादीन्याक लोमहर्गणात् । ततो धीदण्डनेयश्री लब्धं खण्डयुगं भवेत् ॥ ८ ॥ शिष्टमिष्टदिनम्प्रोक्तं युगोदयदिनादिमम् । युगोदय दिनेशः स्याद् युगमानेन वा हते ॥ ९ ॥ गुणकारः फलं नाम भागहारं प्रमाणकम् | प्राप्तलाभो भवेदब्दसंस्कारे तु यथाह्वयम् ॥ १० ॥ दिनराशिर्भवेदिच्छा हन्यात्तम्फलराशिना । विभाजयेत् प्रमाणेन लाभताराकलादिकम् ॥ ११ ॥ वर्त्तमानयुगाब्दानि भागहारैर्विभाजयेत् ।
लब्धं धनमृणं वा स्याद् ग्रहाणां स्वस्वमध्यमे ॥ १२ ॥
१ कलय्यात ॥ २ रसो ३ कुशान्वषखरोरुः ॥ ४ नरा ॥ ५ नयाल ६ नार्द्दना समाहत्य || ७ नीवाप्त ॥
Aho! Shrutgyanam