________________
( ९७ )
त्रिप्रभृतिभिरुच्चस्थै राजानो नृपवंशज चतुरादिभिरन्येपि त्रिकोणोपगतैस्तथा ॥ ३८६ एकादिभिररिक्षेत्रे गतैनींचगतैरपि । दारिद्रो दुःखितो मूर्खो व्याधितो बन्धनान्वितः अभितप्तो वधं प्राप्तः क्रमाज्जातो भवेन्नरः । एकोपि परमोच्चस्थः सुहृददृष्टशे नृपत्वदः ॥ ४० ॥ व्यादिभिर्बलिभिःकेन्द्रे गते नृपसुतो नृपः । वर्गोत्तमस्थिते चन्द्रे चतुरादिभिरीक्षिते ॥ ४१ ॥ भवसन्योऽपि नृपतिः किमुत क्षत्रियोद्भवः । वर्गोत्तमांशे लग्नस्य चतुरादिभिरीक्षिते ॥ ४२ ॥ तदापि क्षत्रियो द्वाभ्यां योगाभ्यां नृपराट् भवेत् । ऋक्षसन्धिषु सञ्चातो न चिरञ्जीवति ध्रुवम् ॥ ४३ ॥ यदि जीवेत्तदा रूमो वाहनाद्यैः समृध्यति । वर्गोत्तमगताः क्रूराः शुभगाश्च गुणोत्तराः ॥ ४४ ॥ वर्गोत्तमं नरं कुर्युर्यवनेश्वरदर्शने । सर्व्वेश्चरादिनिलयैस्त्रय आश्रयोत्था रज्जुः क्रमेण मुसलश्च नलस्तृतीयः । इर्ष्यान्वितः प्रचुरमानयुतो धनाढ्यः सर्व्वेऽपि ते स्वकुलगोत्रजने प्रसिद्धाः ॥ ४५ ॥ त्रिकोणगैय्र्यमाकैः सप्पों दुःखितजन्मदः । देoयोगस्तथा जीवसितज्ञैर्भोगिजन्मदः ॥ ४६ ॥ अष्टादशाकृतिः प्राप्ता गदानन्तर केन्द्रगैः । तत्र जातो भवेद्यज्वा धनवानर्थलालसः ॥ ४७ ॥ विलग्नास्तगतैः सर्वैः शकटो योग इष्यते ।
*
१ दलयोश्रातथा ॥ २ अष्टादसकिति ॥
१३
Aho! Shrutgyanam