________________
॥ श्रीअजुनपताका ॥
१२५
प्राकृतसूत्रेण शवतृ शक्ती इत्यस्य धातोः चय इत्यादेशः, न समर्था भवंतीत्ययः. ते कीदृशाः ? यदि सुरभिमत्तप्रतिपूर्णाः, यदीति संभावनायां, सुरभि घ्राणतणं पंकज, मत्तो गर्जितो हस्ती. प्रतिपूर्णः षोडशकलावांश्चंद्रः, एषां द्वंद्वः, अहं संभावयामि, यद्यते पंकजादित्रयः सुरभिमत्तप्रतिपूर्णा भवंति, तथापि भवतो लोचनचंक्रमितमुखानां लीला हातुं न शक्नुवंतीत्यर्थः, तव लोचनं पंकजादप्यधिकसुंदरं, तव गमनं गजेंद्रगमनादप्यधिकतरं सुंदरं, तव मुखं सपूर्णचंद्रादप्याधिकसुंदरमित्यर्थः, एवं सर्वत्र विशेष्यविशेषणशब्दा यथासंख्यं योज्याः, पुनः कीदृशास्त्रयः ? सुकुमारधीरसौम्याः, सुकुमार कोमलं पंकज, धीरो धैर्यवान् गजः, 'धीरो ज्ञे धैर्यसंयुते इति श्रीहेमसूरिः, सौम्यः कमनीयश्चंद्रः, ततो द्वंद्वः पुनः कीदृशास्त्रयः ? रक्तकृष्णपांडुराः, रक्तं कमलं, कृष्णो गजा, पांडुरः श्वेतश्चंद्रः, एषां द्वंद्वः, पुनः कीदृशाः ! श्रीनिकेताः, श्रियः लक्ष्म्याः शोभाया वा निकेता, निकेतति वसत्येष्विति निकेता गृहाणि, कितनिवासे, निपूर्वः, अधिकरणे घञ, श्रीनिवासस्थानानीत्यर्थः. पुनः कीदृशाः? शीतांकुशग्रहभीरवः शीतं हिमं, अंकुशः सृणिः, ग्रहो राहुरुपरागो वा. ततो द्वंद्वः तेभ्यो भीरवो भीताः, पुनः कीदृशा ? जलस्थलनभोमंडनाः. जलं पानीयं, स्थलं खभावोन्नतभूमिः, रूढ्या भूमिमात्रं वा, नभो व्योम, ततो द्वंद्वः, तेषां मंडनाः, अलंकरिष्णव स्यादित्यनेकार्थसंग्रहः. एवंविधा अपि पंकजगजेंद्रचंद्रास्त्रयस्तव लोचनचंक्रमणमुखानां शोभां न प्राप्नुवंतीति तात्पर्यार्थः. अस्मिन् गाथाद्वये पादलेपजलज्वलनशस्त्रादिस्तंभनगगनगमनाऽदृष्टीकरणदयोऽनेके आम्नायाः संति, ते तु सद्गुरुगम्या इति ॥ ४ ॥५॥ अथोपसंहारमाहमूलम्-एवं वीरजिणिंदो । अच्छरगणसंघसंथुउ भयवं ॥
पालित्तयमयमहिउ । दिसउ खयं सव्वदुरियाणं ॥६॥ व्याख्या-वीरजिनेंद्रः श्रीवर्धमानस्वामी, ममेत्यध्याहार्य, मम सर्वदुरितानां सकलपातकानां क्षयं नाशं दिशतु, धातूनामनेकार्थत्वात्करोत्वित्यर्थः, किंविशिष्टो वीरजिनेंद्रः ? अप्सरोगणसंघसंस्तुतः, अप्सरसा सुरवधूनां गणः समुदायः, तस्य संधैः समूहैः संस्तुतः स्तुतिविषयीकृतः
Aho ! Shrutgyanam