________________
. . . वृश्चिसमेतम् . भूमिः, अयं खलो दुर्जनः, कपोल: गण्डा, कम्बलः ऊर्णामयं प्रावरणं, पाल: यूपकटकं, कल्लोला वीचिः, कालः त्रुव्यादिलक्षणा, कील: कीलनद्रव्यं, गलः कण्ठः, तरला हारमध्यमणिः, प्रवाल अङ्गुर, तण्डुलः फलान्तः कणा, कलला शुक्रशोपितसमवायः, उपलः पाषाणः, तूलः अर्कादीनां फलान्तर्वस्तु, फाल: अयोमयो गोलः, समन्ततो वृतः, 'पूलस्तृणसातः, नलः तृणविशेषः।
पुलिङ्गाधिकारः समाप्तः। स्त्रीलिङ्गं योनिमतां प्राग्दीर्घान्त उदितोऽप्यनुक्त इह । द्रुहलिल्लिदंतदीधितिजात्याजिद्रदाविदछर्दिः ॥ २२ ॥
स्त्रीलिङ्गमधिकृतं वेदितव्यमा विषकुलिशसंशब्दनादिति । योनिमताम् । योनिर्भगः वदतां प्राणिनां यदर्भिधानं तत् स्त्रीलिङ्गं भवति । इयं माता जननी, इयं स्वसा भगिनी, दुहिता सुता, ननान्दा भर्तृभगिनी, याता देवरभार्या, दनुर्दानवमाता, कडूः नागमाता, दितिदैत्यमाता, योषित् युवतिः, स्त्री भार्या, जाया पत्नी । प्राग्दीर्घान्तः। शन्दःप्राक् पूर्वस्मिन् उदितोऽपि कथितोप्यन्यलिङ्गः स्त्रीलिङ्गोभवति। इयं शमी शिंशपा रोहिणी । तरुविशेषत्वात्पुल्लिङ्गमुक्तम् । द्राक्षा तिन्तिडिका फलजातित्वापुंसकत्वं प्राप्तम्। मल्लिका मालती केतकी । कुसुमजातित्वादेषां नपुंसकत्वमुक्तम् । मक्षिका यूका पिपीलिका । प्राणित्वात्पुंस्त्वमुक्तम् । तथापि दीर्घान्तत्वादनेन स्त्रीत्वं भवति । अन्तशब्दग्रहणादनानोपि दीर्घान्तस्य स्त्रीत्वं भवति । व्यावक्रोशी व्यावहारी व्याववर्ची वर्तते । "कर्मव्यतिहारे गच् स्त्रियाम् (३-३-४३)” इति गच् । “णचः स्त्रिया- . म" (५-४-१४)इति तदन्तस्य "टिड्डाणपू० (४-१-१५) ” इति की। गोत्रा गोसमूहः, रथकव्या, खलिनी। "इनित्रकव्यचश्च(४-२-५१) इति समूहे प्रत्ययाः।अनुदितोऽपि।दया करुणा, लीला विलासः, माला सक्, इयं नौोणी । चौः यावी याव इति गगनार्थो चोशब्दो विद्यते । प्रागिति किम् ? । कीलालपाः ग्रामणीः, यवलुः पुरुष इत्यादौ नित्यं स्त्रीत्वं माभूत् । अत्र हिवाच्यवदनेकलिझार्थो भवति। वक्ष्यति तत्परं लक्षणमने. न न बाध्यते । अनुक्त इह दुहलिल्लिदन्त । इहास्मिन् लिङ्गानुशासने या