________________
श्री श्रावकाचार जी विकहा प्रमानं असुहं च, नंदितं असुह भावना । ममतं काम रूपेन, कथितं वर्न विसेषितं ॥ ९९ ॥ स्त्रियं काम रूपेन, कथितं वन विसेषितं । ते नरा नरयं जांति, धर्म रत्नं विलोपितं ॥ १०० ॥ राज्यं राग उत्पाद्यन्ते, ममतं गारव स्थितं । रौद्र ध्यानं च आराध्यं, राज्यं वर्न विसेषितं ॥ १०१ ॥ हिंसानंदी च राज्यं च, अनृतानंद असास्वतं । कथितं असुह भावेन, संसारे भ्रमनं सदा ॥ १०२ ॥ भयस्य भयभीतस्य, अनृतं दुष भाजनं । भावं विकलितं जांति, धर्म रत्नं न सूझते ॥ १०३ ॥ चौरस्य उत्पाद्यते भावं, अनर्थ सो संगीयते । असुद्ध परिनाम तिस्टंते, धर्म भाव न दिस्टते ।। १०४ ।। चौरस्य भावनं दिस्टा, आरति रौद्र संजुतं । स्तेयानंद आनंद, संसारे दुष दारुनं ॥ १०५ ॥ चोरी कृत व्रतधारी च, जिन उक्तं पद लोपनं । असास्वतं अनृतं प्रोक्तं, धर्म रल विलोपितं ॥ १०६ ॥ विकहा अधर्म मूलस्य, विसनं अधर्म संचितं । जे नरा भाव तिस्टंते, दुष दारुनं पुन: पुन: ॥ १०७ ।। जूआ असुद्ध भावस्य, जोइतं अनृतं मुतं । परिणय आरति संजुक्तं, जूआ नरय भाजनं ॥ १०८ ॥ मासं रौद्र ध्यानस्य, संमूर्छन जत्र तिस्टते । जलं कंद मूलस्य, साकं संमूर्च्छनस्तथा ॥ १०९ ॥
श्री तारण तरण अध्यात्मवाणी जी स्वादं विचलितं जेन, संमूर्छनं तस्य उच्यते । जे नरा तस्य भुक्तं च, तिर्यंच नरय स्थितं ॥ ११० ॥ विदल संधान बंधानं, अनुरागं जस्य गीयते । मनस्य भावनं कृत्वा, मासं तस्य न सुद्धये ॥ १११ ।। फलं संपूर्न भुक्तं च, संमूर्च्छन त्रस विभ्रमं । जीवस्य उत्पन्नं दिस्टा, हिंसानंदी मांस दूषनं ॥ ११२ ॥ मद्यं ममत्व भावेन, राज्यं आरूढ़ चिंतनं । भाषा सुद्धि न जानते, मद्यं तस्य विसंचितं ॥ ११३ ॥ अनृतं असत्य भावं च, कार्याकार्य न सूझये । ते नरा मद्यपा होति, संसारे भ्रमनं सदा ॥ ११४ ।। जिन उक्तं न सार्धन्ते, मिथ्या रागादि भावना । अनृतं नृत जानंति, ममतं मान भूतयं ॥ ११५ ॥ सुद्ध तत्त्वं न वेदंते, असुद्धं सुद्ध गीयते । मद्यं ममत्त भावस्य, मद्य दोषं जथा बुधैः ॥ ११६ ॥ जिन उक्तं सुद्ध तत्त्वार्थ, जेन साधं अव्रतं व्रती । अन्यानी मिथ्या ममत्तस्य, मद्ये आरूढ़ ते सदा ॥ ११७ ॥ विस्वा आसक्त आरक्तं, कुन्यानं रमते सदा । नरयं जस्य सद्धावं, ते भाव विस्वा दिस्टितं ॥ ११८ ।। पारधी दुस्ट सद्भाव, रौद्र ध्यानं च संजुतं । आरति आरक्तं जेन, ते पारधी च संजुतं ॥ ११९ ॥ मान्यते दुस्ट सद्भावं, वचनं दुस्ट रतो सदा । चिंतनं दुस्ट आनंद, ते पारधी हिंसा नंदितं ॥ १२० ॥
(३६)