________________
श्री पंडित पूजा जी
श्री तारण तरण अध्यात्मवाणी जी
संमिक्तस्य जलं सुद्ध, संपूरनं सर पूरितं । अस्नानं पिवते गनधरनं, न्यानं सर नंतं धुवं ॥ ११ ॥ सुद्धात्मा चेतना नित्वं, सुद्ध दिस्टि समं धुवं । सुद्ध भाव स्थिरी भूतं, न्यानं अस्नान पंडिता ॥ १२ ॥ प्रषालितं त्रिति मिथ्यातं, सल्यं त्रयं निकंदनं । कुन्यानं राग दोषं च, प्रषालितं असुह भावना ॥ १३ ॥ कषायं चत्रु अनंतानं, पुन्य पाप प्रषालितं । प्रषालितं कर्म दुस्ट च, न्यानं अस्नान पंडिता ॥ १४ ॥ प्रषालितं मनं चवलं, त्रिविधि कर्म प्रषालितं । पंडितो वस्त्र संजुक्तं, आभरनं भूषन क्रीयते ॥ १५ ॥ वस्त्रं च धर्म सद्भावं, आभरनं रत्नत्रयं । मुद्रिका सम मुद्रस्य, मुकुटं न्यान मयं धुवं ॥ १६ ॥ दिस्टतं सुद्ध दिस्टी च, मिथ्यादिस्टी च तिक्तयं । असत्यं अनृतं न दिस्टंते, अचेत दिस्टि न दीयते ॥ १७ ॥ दिस्टतं सुद्ध समयं च, संमिक्तं सुद्धं धुवं । न्यानं मयं च संपूरनं, ममल दिस्टी सदा बुधै ॥ १८ ॥ लोकमूदं न दिस्टंते, देव पाषंड न दिस्टते । अनायतन मद अस्टं च, संका अस्ट न दिस्टते ॥ १९ ॥ दिस्टतं सुद्ध पदं साधं, दरसनं मल विमुक्तयं । न्यानं मयं सुद्ध संमिक्तं, पंडितो दिस्टि सदा बुधै ॥ २० ॥ वेदिका अग्र स्थिरस्चैव, वेदतं निरग्रंथं धुवं । त्रिलोकं समयं सुद्ध, वेद वेदन्ति पंडिता ॥ २१ ॥
उच्चरनं ऊर्ध सुद्धं च, सुद्ध तत्त्वं च भावना । पंडितो पूज आराध्यं, जिन समयं च पूजतं ॥ २२ ॥ पूजतं च जिनं उक्तं, पंडितो पूजतो सदा । पूजतं सुद्ध सार्धं च, मुक्ति गमनं च कारनं ॥ २३ ॥ अदेवं अन्यान मूई च, अगुरं अपूज पूजतं । मिथ्यातं सकल जानते, पूजा संसार भाजनं ॥ २४ ॥ तेनाह पूज सुद्धं च, सुद्ध तत्त्व प्रकासकं । पंडितो वन्दना पूजा, मुक्ति गमनं न संसया ॥ २५ ॥ प्रति इन्द्रं प्रति पूर्नस्य, सुद्धात्मा सुद्ध भावना । सुद्धार्थं सुद्ध समयं च, प्रति इन्द्रं सुद्ध दिस्टितं ॥ २६ दातारो दान सुद्धं च, पूजा आचरन संजुतं । सुद्ध संमिक्त हृदयं जस्य, अस्थिरं सुद्ध भावना ॥ २७ सुद्ध दिस्टी च दिस्टंते, साधं न्यान मयं धुवं । सुद्ध तत्त्वं च आराध्यं, वन्दना पूजा विधीयते ॥ २८ ॥ संघस्य चत्रु संघस्य, भावना सुद्धात्मनं । समय सरनस्य सुद्धस्य, जिन उक्तं साधं धुवं ॥ २९ ॥ सार्धं च सप्त तत्त्वानं, दर्व काया पदार्थकं । चेतना सुद्ध धुवं निस्चय, उक्तंति केवलं जिनं ॥ ३० ॥ मिथ्या तिक्त त्रितियं च, कुन्यानं त्रिति तिक्तयं । सुद्ध भाव सुद्ध समयं च, साधं भव्य लोकयं ॥ ३१ ॥ एतत् संमिक्त पूजस्या, पूजा पूज्य समाचरेत् ।। मुक्ति श्रियं पथं सुद्ध, विवहार निस्चय सास्वतं ॥ ३२ ॥ ॥ इति श्री पंडित पूजा नाम संथ जी...आचार्य श्रीमद् जिन तारण तरण मंडलाचार्य विरचितं सम उत्पन्निता ॥