________________
३०६
वक्रोक्तिजीवितम्
स्पदमभिधाव्यापारगोचरम् । एवंविधस्यास्य स्वपशोभातिशयभ्राजिष्णाविभूषणान्युपशोभान्तरमारभन्ने ।
अर्थ अर्थात् वर्णन किये जाने वाले पदार्थ का इस शरीर को उपादेय रूप से जानना चाहिए अर्थात् ग्रहण करने योग्य समझना चाहिए। कैसा होने पर-रमणीयता से निर्भर अर्थात् सुन्दरता से परिपूर्ण, दोषों से हीन होने के कारण सहृदयों को आकृष्ट करनेवाला ( होने पर)। क्योंकि यही कवियों का वर्णनास्पद अर्थात् कविवाणी के व्यापार का विषय होता है।
इस प्रकार अपने स्वरूप की शोभा के उत्कर्ष से कान्तियुक्त इस स्वरूप के अलङ्कार उपशोभा मात्र को प्रारम्भ करते हैं। - एतदेव प्रकारान्तरेण विचारयति
धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् । व्यवहारोचितं चान्यल्लभते वर्णनीयताम् ॥ १० ॥ इसी बात का दूसरे ढंग से विवेचन करते हैं
और दूसरा भी ( चेतनों व अचेतनों का स्वरूप ) धर्म आदि ( पुरुषार्थचतुष्टय ) की प्राप्ति के उपायभूत-व्यापार के कारण रूप में, लोक व्यवहार के अनुरूप ( हो कवियों के ) वर्णन का विषय बनता है ॥ १० ॥
व्यवहारोचितं चान्यत् । अपरं पदार्थानां चेतनाचेतनानां स्वरूपमेवंविधं वर्णनीयतां लभते कविव्यापारविषयतां प्रतिपद्यते । कीदृशम्व्यवहारोचितम् , लोकवृत्तयोग्यम् । कीदृशं सत्-धर्मादिसाधनोपायपरिस्पन्दनिबन्धनम् । धर्मादेश्चतुर्वर्गस्य साधने संपादने उपायभूतो यः परिस्पन्दः स्वविलसितं तदेव निबन्धनं यस्य तत्तथोक्तम् । तदिदमुक्तं भवति-यत् काव्ये वर्ण्य मानवृत्तयः प्रधानचेतनप्रभृतयः सर्वे पदार्थाश्चतुर्वर्गसाधनोपायपरिस्पन्दप्राधान्येन वर्णनीयाः, येऽप्यप्रधानचेतनस्वरूपाः पदार्थास्तेपि धर्मार्थाद्युपायभूतस्वविलासप्राधान्येन कवीनां वर्णनीयतामवतरन्ति । तथा च राज्ञां शूद्रकप्रभृतीनां मन्त्रिणां च शुकना. समुख्यानां चतुर्वर्गानुष्ठानोपदेशपरत्वेनैव चरितानि वय॑न्ते । अप्रधानचेतनानां हस्तिद्रिणप्रभृतीनां संग्राममृगयाद्यङ्गतया परिस्पन्दसुन्दरं स्वरूपं लक्ष्ये वर्ण्यमानतया परिदृश्यते । तस्मादेव च तथाविधस्वरूपोल्लेख. प्राधान्येन काव्यकाव्योपकरणकवीनां चित्रचित्रोपकरणचित्रकरैः साम्यं प्रथममेव प्रतिपादितम् । तदेवंविधं स्वभावप्राधान्येन रसप्राधान्येन