________________
२८०
श्रीशान्तिनाथचरित्रे
गाय गान्धर्विके ! गीतं नृत्यं कुर्मो वयं यतः । पूरयामो निजां स्वेच्छामिह स्थाने 'मनोरमे ॥ ४५ ॥ एवं वदन्त्यस्तास्तत्र क्रीडन्ति स्म यथासुखम् । हासतोषपरवशा महाविस्मयकारिकाः ॥ ४६ ॥ ततः स्वेदजलार्द्राणि मुक्तादायाऽम्बराणि ताः । क्षणमेकं च विश्रम्य स्वस्थानं प्रस्थिताः पुनः ॥ ४७ ॥ वत्सराजकुमारोऽपि कुञ्चिकाविवरेण तत् । व्यलोकयत् कौतुकेन सर्वं तासां विचेष्टितम् ॥ ४८ ॥ तत्रैव विस्मृतं तासां भक्तिचित्रं सुकञ्चुकम् । ददर्श चैकं रत्नौघमण्डितं तं महाद्युतिम् ॥ ४८ अथोद्घाट्य कपाटे तं गृहीत्वा वरकञ्चुकम् । प्रविवेश झटित्येव पुनर्देवकुलान्तरे ॥ ५० ॥ मध्ये तासां खेचरोणां स्मृत्वोचेऽथ प्रभावती । महामूल्यो वारवाणस्तत्व मे विस्मृतो हला ! ॥ ५१ ॥ ततस्ताभिरभाणीयं वेगवत्या समन्विता ।
गत्वा त्वं सत्वरं तत्रानय तं निजकञ्चुकम् ॥ ५२ ॥ इत्युक्ता सा ययौ शीघ्रं स्थाने नैचिष्ट तत्र तम् । जजल्प च गतः काऽयमियत्या सखि ! वेलया ॥ ५३ ॥ स्थानं निर्मानुषं चैतत् त्रियामा च त्रियामिता । ततः संभाव्यते नाऽस्य ग्राहकः कोऽपि निश्चितम् ॥ ५४ ॥
(१) मनोहरे ।