________________
पञ्चमः प्रस्तावः ।
तस्यां पुर्यामयं कल्पः शाकिनीनां भयेन यत् । उाय्यन्ते गोपुराणि भानुमत्युदिते सति ॥ ३५ ॥ वत्सराजस्ततो दध्यौ पुर्खा बाह्यग्गृहेषु न । वसनीयं यतो गन्धः शक्यो रोडुं न चान्दनः ॥ ३६ ॥ क्व गम्येयं मया रात्रिः शीते पतति दारुणे ? । हुं ज्ञातं वा तत्र देवकुलिकायां व्रजाम्यहम् ॥ ३७ ॥ इति ध्यात्वा द्रुतं तत्र गत्वा चैकत्र पादपे । कावाकृतिं चावलम्बाऽविशद्देवकुलान्तरे ॥ ३८ ॥ तत्कपाटे पिधायाऽथ मुक्का पार्श्वे कुठारिकाम् । तत्रैकदेशे सुष्वाप निर्भयो वीरसेनजः ॥ ३८ ॥ अत्रान्तरे च संजातं रात्रिमध्ये यदद्भुतम् । वत्सस्य तस्थुषस्तत्त्र तदितः श्रूयतां जनाः ! ॥ ४० ॥ अतिरम्यविमानस्थो वैताढ्यवरपर्वतात् ।
समाययौ खेचरौणां सार्थोऽस्मिन् यक्षमन्दिरे ॥ ४१ ॥
विहितस्फारशृङ्गारा गीतनृत्यसमुद्यताः ।
तद्दाह्यमण्डपगता जल्पन्ति स्मेति ता मिथः ॥ ४२ ॥
चित्रलेखे ! प्रवीणे ! त्वं वीणां वादय सुन्दराम् ।
'हले ! मदनिके ! तालावादनं त्वं पुनः कुरु ॥ ४३ ॥ पटिष्ठे ! पटहं सज्जं विधेहि वेगवत् परम् ।
मृदङ्गमङ्ग प्रगुणं क्षिप्रं पवनिके! तनुं ॥ ४४॥ ·
३२
(१) ङ ज ध हला ।
२८६
BL
1373 545A6
1909
V.4.