________________
३४२
श्रीशान्तिनाथचरित्रे
ततो भम्भामृदङ्गादीन्यातोद्यानि गुरुस्वरम् । वादयन्ति स्म साटोपास्त त्याठकुशला नराः ॥ ३८ ॥ चक्रे च हाहाहइभ्यां सप्तस्वरसमन्वितम् । सम्म छनाग्रामलयमात्राढ्यं गौतमुत्तमम् ॥ ३८ ॥ रम्भा तिलोत्तमा चेवोवंशो मेना सुकेशिका। हावभावविलासाढ्यं नृत्यं चक्रुः पुरः प्रभोः ॥ ४० ॥ स एवं विधसामग्रमा निर्गत्य नगराच्छनैः । उद्यानं प्रवरं प्राप सहस्रामवणाभिधम् ॥ ४१ ॥ शिबिकाया: समुत्तीर्य विमुच्याभरणान्यथ । पञ्चभिर्मुष्टिभिः केशानुचखान जिनेश्वरः ॥ ४२ ॥ वस्त्राञ्चले गृहीत्वा तान् क्षीराब्धी मघवाऽक्षिपत् । मृदङ्गनादसंयुक्तं तुमुलं च न्यवारयत् ॥ ४३ ॥ ज्येष्ठासितचतुर्दश्यां शशाङ्के भरणीगते । कत्वा सिद्धनमस्कारं प्रभुश्चारित्रमाददे ॥ ४४ ॥ कतषष्ठतपा: साधं सहस्रेण महीभुजाम् । आत्तसामायिक: सोऽथ विजहार महीतले ॥ ४५ ॥ कस्मिंश्चित्सनिवेशेऽथ परमानेन कारितः । सुमित्राख्यगृहस्थेन पारणं परमेश्वरः ॥ ४६ ॥ चतुर्ज्ञानधरः सोऽथ ग्रामाकरपुराकुलाम् । स्वामी विहरति स्मोवी महासत्त्वशिरोर्माण: ॥ ४०॥ मासान् छद्मस्थकालेऽष्टौ विहृत्य पुनराययो । स हास्तिनपुरे तत्र सहस्रावण वरे ॥ ४८ ॥