________________
षष्ठः प्रस्ताव:
३४१
एवं पालयतश्वक्रि पदवीमसमां प्रभोः । ययौ वर्षसहस्राणां विंशतिः पञ्चसंयुता ॥ २७ ॥ अत्रान्तरे ब्रह्मलोकेऽरिष्ट प्रस्तरवासिनाम् । पीठं सारस्वतादीनां चलति स्मामृताशिनाम् ॥ २८ ॥ विज्ञायावधिना तेऽथ व्रतस्य समयं विभोः । तोथं प्रवर्तयेत्याचचक्षिरे सैन्य बन्दिवत् ॥ २८ ॥ विजानंस्तत् स्वयं स्वामी तैश्चैवं ज्ञापितस्ततः । ढढी सांवत्सरं दानं याचकेभ्यो यथारुचि ॥ ३० ॥ ततश्चक्रायुधं राज्ये निवेश्य तनयं निजम् । बभव भगवान् दीक्षाग्रहगाथं समुद्यत: ॥ ३१ ॥ अत्रान्तरे सुराधीशाः सर्वेऽपि चलितासनाः । आययुः शान्तिनाथस्य कर्नु निष्क्रमगोत्सवम् ॥ ३२ ॥ सर्वार्थसंज्ञां शिबिकामाहरोहाऽथ तीर्थ कृत् । चामराभ्यां वीज्यमानो नच्छत्रश्च मस्त के ॥ ३३ ॥ उरिक्षप्ता मानुषैः पूर्व शिबिका सा जगद्गुरोः । सुरासुरेन्द्र गरुलनागेन्द्रैश्च ततस्ततः ॥ ३४ ॥ उदूढा मा पुरो देवैर्दक्षिणाने तथाऽसुरैः । पभाद्भागे च गरुले गैरुत्तरतस्त था ॥ ३५ ॥ नृत्यं प्रकटयन्ति स्म पुरो भगवतो नटा: । पठन्ति स्मोच्चकैसट्टा: स्वामिन् ! जय जयेति च ॥ ३६ ॥ महणान् वर्ण यन्ति स्मैश्वर्यादीन् भुवनोत्तरान् । नानाच्छन्द जगद्भतुनरा रामक दायका: ॥ ३७॥