________________
३३४
श्रौशान्तिनाथचरित्रे
सुवाससा प्रमृज्याङ्ग चन्दनाद्यैर्विलिप्य च । पुष्पाद्यैरर्चयामास प्रोतचित्तः शचीपतिः ॥ ५२ ॥ विधाय चक्षुःशान्त्यर्थं लवणोत्तारणादिकम् । शक्रो नत्वा जिनं भक्त्या स्तोतुमेवं प्रचक्रमे ॥ ५३ ॥ जय त्वमचिराकुक्षिक्षितिकल्पद्रुसन्निभ ! । भव्याम्भोरुहसू-भ ! भद्रग्रेणिविधायक ! ॥ ५४ ॥ इत्याद्युद्दामवचनैः स्तुत्वा नीत्वा पुनगुहे। म मातुरर्पयामास जिनमेवं जगाद च ॥ ५५ ॥ जिनस्य जिनमातुश्च यो दुष्टं चिन्तयिष्यति । एरण्डफलवद् ग्रीष्मे स्फुटिष्यत्यस्य मस्त कम् ॥ ५६ ॥ ततो नन्दीश्वरहीपे यात्रां कृत्वा सुरेश्वराः । सर्वे निजं निजं स्थानं जग्मस्ताश्च कुमारिका: ॥ ५७ ॥ तदा देवी जजागार तदङ्गप्रतिचारिकाः । दृष्ट्वा सनन्दनामेतां जातानन्दाः समम्भ्रमाः ॥ ५८ ॥ प्रसवलगतयो गाढनीवीबन्धशिरोरुहा: । पतत्प्रच्छादनाः पुत्रजन्म राजे न्यवेदयन् ॥ ५८ ॥ इदं च कथयामासुः सूतिकर्माऽस्य देव ! यत् । चक्र काष्ठाकुमारीभिर्दासोभिरिव साञ्जसम् ॥ ६० ॥ कृती जन्माभिषेकश्च सुरेन्द्रर्मेरुमस्तके । इति देवमुखात् स्वामिन्नस्माभिः शुश्रुवे वचः ॥ ६१ ॥ ततोऽभिनवपाथोदधाराहतकदम्बवत् । शुशुभे जातरोमाञ्चकञ्चको जगतीपतिः ॥ ६२ ॥