________________
षष्ठः प्रस्ताव:
३३३
तुभ्यं नमस्तीर्यनाथ ! मनाथी कतविष्टप ! कृपारमसरिनाथ ! नाथ ! श्रीविश्वसेनज ! ॥ ४१ ॥ कुक्षौ रत्नधरे ! देवि ! जगद्दीपप्रदायिक ! नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥ ४२ ॥ त्वमेवामोघजन्माऽसि त्वमेवोत्तमलक्षण ! पुत्रिणीषु त्वमेवाऽसि पवित्रा भुवनत्रये ॥ ४३ ॥ धर्मोद्धरणधोरेयश्छन्नमोक्षाऽध्वदीपकः । षोडशस्तीर्थनाथोऽयं भगवान् सुषुवे यया ॥ ४४ ॥ नत्वा स्तुत्वा जिनाधीशं तदम्बां च विशेषतः । दत्त्वावस्वापिनों तस्याः प्रतिरूपं निवेश्य च ॥ ४५ ॥ पञ्चरूपो बभूवाऽसो तत्रैको जिनमाददे। एकश्त्रं पविं चैको हौ च चामरधारिणो ॥४६॥ (युग्मम्) स ययो मेरु शिखरे सुरेन्द्रा अपरेऽपि हि। तत्रैयुः स्वर्गभुवनवासिनो व्यन्तरास्तथा ॥ ४७ ॥ तत्रातिपाण्डुकम्बलशिलायां शाश्वतासने । सौधर्मेन्द्रो निषसाद धृत्वाङ्गे जिनपुङ्गवम् ॥ ४८ ॥ हेमरूप्यमणिदारुमृन्मयां कलशावलिम् । तीर्थगन्धोदकापूर्णामुक्षिप्य प्रमदाञ्चिताः ॥ ४८ ॥ अच्युताद्याः सुराधीशाय क्रिरे जिनमज्जनम् । निःमौमसुकृतापास्तभवाम्भोधिनिमज्जनम् ॥५०॥ (युग्मम्) ततश्चाच्युतनाथस्योत्सङ्गे संस्थाप्य तीर्थपम् । मौधर्मेन्द्रो व्यधात् स्नात्रं पुण्य पात्रं जगहुरोः ॥ ५१ ॥