________________
२८२
श्रीशान्तिनाथचरित्रे
जातस्य समये तस्याप्यकारि जगतीभुजा। व सराज इति स्वप्नानुसारेणाभिधा वरा ॥ ६२ ॥ क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः । अधीते स्म महाप्राज्ञः कलाचार्यस्य सन्निधौ ॥ ६३ ॥ अन्यदा ज्वरदाघादिरोगग्रस्तशरीरकः । आयुष्पर्यन्तकालत्वाहभूव पृथिवीपतिः ॥ ६४ ॥ दृष्ट्वा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाञ्चक्रिरे मिथः ॥ ६५ ॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि। तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसो नृपः ॥ ६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिणा | खोचके देवराजेन सैन्यं वाजिगजादिकम् ॥ ६७ ॥ तं नियुक्त कृतं श्रुत्वाऽऽरवं किमिति भूपतिः ? । पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥ ६८ ॥ ततश्च स जगादेवं व्याध्याधिभ्यां निपीडितः । अहो ! अयुक्तं विदधे कार्यमेतद्धि मन्त्रिणा ॥ ६८ ॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! ? ॥ ७० ॥ इत्युक्त्वा संस्थितः सोऽथ देवराजीऽभवन्नृपः । विना जनानुरागण राज्यं पालयति स्म सः ॥ ७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पिटवद्देवराजस्य स्वभावविनयान्वितः ॥ ७२ ॥