________________
श्रीशान्तिनाथचरित्र
ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधाना: शृणुत महचः ॥ १८ ॥ इतो भवादतिक्रान्त पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥ १८ ॥ तदाऽऽवयोरभूच्छत्रदमितारिर्महाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातित: ॥ २० ॥ भ्रान्त्वा संसारकान्तारमिहेव भरतार्धके । अष्टापदगिरर्मूले सोऽभवत्तापसात्मजः ॥ २१ ॥ कृत्वा बालतपो मृत्वा सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ २२ ॥ अश्रद्दधप्रशंसां तामिहायातस्ततः परम् । यज्जातं भवतां तद्धि प्रत्यक्षं सर्वमेव भोः ! ॥ २३ ॥ स्ववृत्तं देववृत्तं च तावाकये विहायसी । संजातजातिस्मरणो स्ववाचैवं जजल्पतुः ॥ २४ ॥ इदं वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ २५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयो ! । भावसारं विदधीथोऽनशनं पापनाशनम् ॥ २६ ॥ ततस्तो विहितप्रायो स्मृतपञ्चनमस्कृती। मृत्वा धन्यो समुत्पन्नी देवी भुवनवासिषु ॥ २७ ॥ पौषधं पारयित्वा तं विधिना कृत्वा च पारणम् । भोगानभुङक्त भूयोऽपि राजा मेघरय: सुधीः ॥ २८॥