________________
पञ्चमः प्रस्तावः ।
२७३
श्रुत्वा मेघरथस्योक्ति श्येनोऽवोचन्महीपते ।। धर्माधर्मविचारं त्वं करोयेवं सुखी यतः ॥ ६५ ॥ पारापतोऽयं मझोतः शरणं त्वां समाश्रितः । बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥ ६६ ॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कृपाशूर ! तदेनमिव मामपि ॥ ६७ ॥ कृत्याकृत्यं स्वयं वेत्सि किन्वेकं कथयामि ते । मादृशे क्षुधिते तुटे कीदृशी धर्मवासना ? ॥ ६८ ॥ विवेको जौ दया 'धर्मो विद्या स्नेहश्च सौम्यता। सत्त्वं च जायते नैव क्षुधातस्य शरीरिणः ॥ ६८ ॥ प्रतिपन्नमपि प्रायो लुप्यते क्षुन्निपीडितः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रभो ! ॥ ७० ॥ करीरवनसंकीर्णे निर्जले मरुमण्ड ले । अवात्सीत् कूपके क्वापि विजिह्वः प्रियदर्शनः ॥ ७१ ॥ नीरासन्न बिलस्यान्तः सुखेन निवसन्न सौ। विदधे सर्वदाऽऽहारं भकादिजलजन्तुभिः ॥ ७२ ॥ सुखप्राप्तिकते तेषामेकेन हरिणा सह । गङ्गदत्ताभिधानेन स मैत्रीत्वं प्रपन्नवान् ॥ ७३ ॥ कूपान्तरकतावासा चित्रलेखा च सारिका। बभूव मधुरालापा तस्य सर्पस्य वल्लभा ॥ ७४ ॥
(१) ठ सत्यं ।
३५