________________
पञ्चमः प्रस्तावः ।
विलक्षवदनो व्याघ्रो व्याघुट्याऽगाददृश्यताम् ।
उत्ततार ततो वृक्षात् सनिषादा च वानरी ॥ २५ ॥ अग्रे भूत्वा तया निन्ये स स्वावासे लताश्रये । तस्याः शिशवस्तत्त्रासंस्तेषां पार्श्वे निवेश्य तम् ॥ २६ ॥ विधातुं स्वागतं तस्य सा त्वनालस्यशालिनी । वनमध्ये ययौ स्वादुफलानयनहेतवे ॥ २७ ॥ ( युग्मम् ) जिघत्सुना निषादेन तदपत्यानि तान्यपि । खादितानि कुत: कृत्याकृत्यवेदो दुरात्मनाम् ? ॥ २८ ॥ फलान्यादाय स्वादूनि वानरो यावदाययो । तावत्सुप्तं निषादं तमपश्यन्न च तान् शिशून् ॥ २८ ॥ तथाऽप्युत्थाप्य यत्नेन दत्त्वा चास्मै फलानि सा । अपत्यान्वेषणं कर्तुं सार्धं तेन प्रचक्रमे ॥ ३० ॥ पातिताऽपि पुरा वृक्षादपत्येष्वशिष्वपि । प्रतिपत्रसगर्भेऽस्मिन् नाशशङ्के तथाऽप्यसौ ॥ ३१ ॥ दध्यौ चित्ते निषादोऽपि विषादाकुलितो भृशम् । अहो ! मेऽद्य रुमस्तोऽपि व्यापारोऽभूनिरर्थकः ॥ ३२ ॥ रिक्त एव कथं गेहे यास्यामीति विचिन्त्य सः ? | 'यष्ट्या चाहत्य हतवान् होनस्तामेव वानरोम् ॥ ३३ ॥ तां च कावाकृतौ क्षिष्वा नीयमानां निरोच्य सः । आविर्भयाऽवदद् व्याघ्रः किमिदं रे कृतं त्वया ? ॥ ३४ ॥
(१) क द व्यापाद्य वानरीं स्कन्धे निधाय प्रचचाल सः ॥ यावत्प्रयात्यसौ गेहं प्रति तावद्ददर्श च ।
२६८