________________
श्रीशान्तिनाथचरित्रे
विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ ८३ ॥ दधात्वमो भूतधात्री हावेव पुरुषो सदा । उपकारे मतिर्यस्य यश्व नोपकतं हरेत् ॥ ८४ ॥ ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः । समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ ८५ ॥ पुन: स्माह महाराज ! सुखदुःखकती कती। ध्रवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ ८६ ॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महोभुजा। शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ ७ ॥ शिवस्वाम्यपि देशे कृतजैकशिरोमणिः । प्रावर्तयन्नागपूजाविधाने नागपञ्चमीम् ॥ ८ ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन हिजन्मना ॥ ८ ॥ कलादादिपदः प्राप्ता निषादोऽयं तथैव हि। विधाता ते महानथं तन्मुञ्चैनं ममाशनम् ॥ २०० ॥ (युग्मम्) एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरी । यावत्तावत् स आसीनो व्याघ्रस्तस्य तरोरधः ॥ १ ॥ इति व्यचिन्तयदहो ! तिरश्चामपि चेतसि । मैत्रबादि दृश्यते बुद्धिदुर्लभा या तु योगिनाम् ॥ २ ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः । अस्वपद् वानरी साऽपि निवेश्याझे निजं शिरः ॥ ३ ॥