________________
२५८
श्री शान्तिनाथचरित्रे
इति जल्पन् मनुष्योक्त्या कुतोऽप्येत्य भयद्भुतः । पपात भूपतेः क्रोडे पक्षी पारापताभिधः ॥ ८ ॥ ( युग्मम् ) भयभीतममुं दृष्ट्वा दयालुः स महीपतिः ।
प्रोचे त्वं भद्र ! मा भैषीः कुतोऽपि मम सन्निधौ ॥ १० ॥ एवमाभाषितो राज्ञा निर्भयः समभूदसौ ।
तावत् तत्र समायातः क्रूरः श्येनाऽभिधो द्विजः ॥ ११ ॥ सोऽवदत् शृणु राजेन्द्र ! त्वदुत्सङ्गगतोऽस्ति यः । पारापतः स मे भक्ष्यं तं मुञ्च क्षुधितोऽस्मग्रहम् ॥ १२ ॥ जजल्प भूपतिर्भद्र ! ममाऽयं शरणाऽऽगतः । युक्तो नाऽर्पयितुं येन पठन्त्येवं मनोषिणः ॥ १३ ॥ शूरस्य शरणाऽऽयातोऽहेर्मणिय सटा हरेः । गृह्यन्ते जीवतां नैतेऽमीषां सत्या उरस्तथा ॥ १४ ॥ परप्राणे: निजप्राणपोषणं पुण्यशोषणम् । तवाऽपि नोचितं स्वर्गवारणं श्वभ्वकारणम् ॥ १५ ॥ छिद्यमानेऽप्येक पिच्छे यथा ते जायते व्यथा । तथाऽन्येषामपि भवेदिदं चित्ते विभावय ॥ १६ ॥ भाविनो ते क्षणं तृप्तिः पललेऽप्यस्य भक्षिते । सर्वप्राणविनाशोऽस्येति चित्ते परिभावय ॥ १७ ॥ पञ्चेन्द्रियाणां जीवानां वधं कृत्वा दुराशयाः । गच्छन्ति नरकं जीवा इदं चित्ते विभावय ॥ १८ ॥ श्रूयते जीवहिंसावान् निषादो नरकं गतः । दयाssदिगुणयुक्ता च वानरी त्रिदिवं गता ॥ १८ ॥