________________
२४८
श्रीशान्तिनाथ चरित्रे
लेख्यं गणितमालेख्यं नाट्यं गीतं च वादितम् | खरपुष्करगतं समतालं चेति तत् त्रिधा ॥ ८ ॥ अष्टापदं नालिका च जनवादं तथैव च । विधा द्यूतं चानपानविधिः शयनसंयुतः ॥ १० ॥
आभरणविधिश्वाऽऽर्या गाथा गोतिः प्रहेलिका। श्लोकश्च गन्धयुक्तश्च तरुणीनां प्रसाधनम् ॥ ११ ॥ नगरस्त्रीहयहस्तीनां लक्षणानि गवां तथा । लक्षणं ताम्रचडस्य तथा 'मेद्रस्य लक्षणम् ॥ १२ ॥ चक्रच्छत्रमणि दण्ड काकिणीखगचर्मणाम् । प्रत्येक लक्षणानीह ज्ञातव्यानि कलाविदा ॥ १३ ॥ चन्द्र सूरग्रहराहुचरितं सूपकारता । विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥ १४ ॥ व्यहं चापि प्रतिव्यूहं चारं च प्रतिचारकम् ।। स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥ १५ ॥ स्कन्धावारपुरवास्तुनिवेशं चाऽवशिक्षणम् । हस्ति शिक्षा तत्त्ववादं नीतिशास्त्रं सविस्तरम् ॥ १६ ॥ धनुर्वेदमणिस्वर्ण धातुवादं तथैव च ।। बाहुयुद्धं दण्डयुद्धं दृष्टिमुट्योयुधं तथा ॥ १७॥ } नियुद्धं वाग्युधं सर्पवलापां स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च कषिर्वाणिज्यकर्म च ॥ १८ ॥
(१)
क ख डज घगडस्य ।