________________
चतुर्थः प्रस्तावः। इति जल्पत्यसावन्तविरहाऽग्निशिखानिभान् । सुदीर्घतरनिःश्वासान् मुन्नत्यपचितं ययौ ॥ २८ ॥ राज्ञोक्तमत्र यः कश्चिद् मित्रमस्य प्रवर्तते । संबोध्य रक्षणीयोऽयममुना मृत्युसाहसात् ॥ ३० ॥ नागरः पुण्यसारोऽस्य तन्मित्रं परिकीर्तितः । राजाऽऽदिष्टः स निकटे गत्वाऽथ तमभाषत ॥ ३१ ॥ तारुण्ये वर्तमानस्य संपदाऽलङ्गतस्य च । दुःखहेतुमनाख्याय युक्ता नो मित्र ! ते मृतिः ॥ ३२ ॥ सोऽवदद् यस्य दुःखानि कथ्यन्ते स न दृश्यते । हृदयात् कण्ठमागत्य यान्ति तत्रैव तान्य हो ! ॥ ३३ ॥ अपरः प्राह मित्र ! 'त्वां तथाऽहं तकयामि यत् । करोष्यवंविधां चेष्टामुपहासकरौं नृणाम् ॥ ३४ ॥ स्मित्वा तल्लिखितश्लोकमुक्त्वा चैवमुवाच सा। किमयं भवता श्लोकोऽले खि नो वैति कथ्यताम् ? ॥ ३५ ॥ आमेति भणिते तेन सोचे साऽहं तव प्रिया। या मुक्ता तोरण हारेऽभिधया गुणसुन्दरी ॥ ३६ ॥ प्रयासोऽयं मया चक्रे हे कान्त ! तव हेतवे। तत् प्रसौद स्त्रियो वेषं ममाऽऽशु त्वं समर्पय ॥ ३७ ॥ यहादानाय्य तेनाऽपि दत्तः सोऽत्यै मनोहरः । प्रतिसौरान्तरात् साऽथ निर्य यो परिधाय 'तम् ॥ ३८ ॥
(१) ख घ जल्पन्नमौ। (२) ख घ मुञ्चनुप-।
(३) घ ज गत्वा च। (४) ज द माऽवदत् ।
(५) घ त्वं । (६) डच ।