________________
२२२
श्रीशान्तिनाथचरित्रे
लम्बोदरग्रहदारे वेदिकामण्डप कृते । मेलितस्वजन: श्रेष्ठी यावदासीत् सुताऽन्वित: ॥ ५८ ॥ तावत् ते देवते तस्य समीपेन प्रजग्मतुः । श्रेष्ठयावासे रसवत्या रसग्रहणहेतवे ॥ ५८ ॥ ( युग्मम् ) एत अनुव्रजन् पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणितश्चैवं निवेश्य प्रवराऽऽसने ॥ ६० ॥ लम्बोदरेण भट्र ! त्वं जामाता परिकल्पितः । एता मम सुताः सप्त तत्त्वं परिणयानघ ! ॥ ६१ ॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्यभूषणनालस्त: शेष्ठिना च स: ॥ ६२ ॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाक्षिकम् । परिणीताः चारु कन्या: पुरन्दरसुतेन ताः ॥ ६३ ॥ सोऽथ दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् । अन्यथैवं कथं पुण्यसारनाम स्फुटीभवेत् ? ॥ ६४ ॥ इति ध्यायन् कृतोहाहः स वधूभिः समन्वितः । श्रेष्ठिना स्वग्रहं निन्ये महोत्सवपुरस्मरम् ॥ ६५ ।। प्रासादस्योपरितनभूमौ नीत्वा निवेशितः । वल्लभाभिः स पर्यले निविष्टास्ताश्च विष्टरे ॥ ६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति ? । सोऽब्रवीत् सकला मुग्धाः ! मम नेष्टतरा यतः ॥ ६७ ॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च । उपार्जयत तद् यूयं सर्वथा मध्यमां कलाम् ॥ ६८ ॥