________________
श्रीशान्तिनाथचरित्रे
खेचरेग्णाऽमुना चक्री भणितः सपरिच्छदः । पापकर्म कृतेरस्यापराधः श्रयतामिति ॥ १५ ॥ अहं सुकच्छ विजये वैताये शुक्लपू:स्थितेः । पुत्रः पवन वेगाख्यः शुक्लदत्तस्य भूपतेः ॥ १६ ॥ सुकान्ता नाम मे कान्ता तस्याः कुक्षिसमुद्भवा । एषा शान्तिमती नाना मम पुत्री शुभाकृतिः ॥ १७ ॥ अथान्येद्युमया दत्तामिमां प्रज्ञप्तिसंज्ञिकाम् । ययो साधयितुं विद्या मणिसागरपर्वते ॥ १८ ॥ विद्या प्रसाधयन्तीयं हृताऽनेन दुरात्मना । अत्रान्तरे च विद्या सा सिद्धाऽस्या भक्तिरञ्जिता ॥ १८ ॥ तस्या बिभ्यट् विवेशायं युष्माकं शरणे प्रभो ! । तत्रापश्यन् नगे पुत्रीमत्रागामहमप्यरम् ॥ २० ॥ तदेनं मत्सुताशीलविध्वंसन रुचिं बलात् । मुञ्च राजन् ! यथै केन गदाऽऽघातेन हन्म्यहम् ॥ २१ ॥ अवधिज्ञानतो ज्ञात्वा तत्पूर्वभवचेष्टितम् । प्रतिबोधकते तेषां चक्री वज्रायुधोऽब्रवीत् ॥ २२ ॥ कारणेन हृता येन पुत्री पवनवेग ! ते।। खेचरेणाऽमुना तत् त्वं शृण्वहं कथयामि भोः ! ॥ २३ ॥ विज्ञाय ज्ञानमाहात्मा सर्वे सभ्या निजप्रभोः । श्रोतुमभ्यु यता जाताः स चाऽऽचख्याविदं स्फुटम् ॥ २४ ॥
(१)
द -रते-1