________________
२८६
श्रौशान्तिनाथचरित्रे श्रुत्वैकत्र स्वरं राज्ञः पुत्राणां कुर्वतां श्रमम्।। जगाम सोऽपि तत्राशु तदालोकनकौतुको ॥ ४ ॥ तेषां मध्याद्यदा कोऽपि घाताद् भ्रश्येन्मनागपि । . वत्सराज: समीपस्थस्तदा म्लानमुखोऽभवत् ॥ ५ ॥ घातो यदि पुनः स्थाने भवेत्तु तोषनिर्भरः । प्रहृष्टवदनश्चामुं प्राशंसत् साधु साध्विति ॥ ६ ॥ तद् दृष्ट्वा तत्कलाचार्यो दध्यो कोऽप्येष कोविदः । बालोऽपि शस्त्रकर्माणि य एवं वेत्ति निश्चितम् ॥ ७ ॥ एवं पृष्टोऽमुना सोऽथ कुतो वत्स ! त्वमागत: ? । जगाद वत्सराजोऽपि तात ! वैदेशिकोऽस्मयहम् ॥ ८ ॥ स पुन: स्माह भो भद्र ! कत्ला प्रहरणं करे । आत्मन: शस्त्रकौशल्यं त्वं मदग्रे प्रकाशय ॥ ८ ॥ विज्ञायावसरं सोऽपि तथा चक्रे महामतिः । तेषां योग्यं कुमाराणां तदा भक्तं समाययौ ॥ १० ॥ भोजितो वत्सराजोऽपि ततस्तरात्मना सह। तत्कलाभ्याससन्तुष्टैर्गुणैः सर्वत्र पूज्यते ॥ ११ ॥ सोऽस्थात्तत्र दिनं सर्व वत्स रूपाणि तानि तु । रक्षपालं विना गेहे सकालेऽपि समाययुः ॥ १२ ॥ एयुः सदिवसेऽप्यद्य किमेतानीति जल्पिते ? । थेष्ठिना विमलोवाच नाहं जानामि कारणम् ॥ १३ ॥
१३) ड
-ल्यममदने।