________________
१८२
श्रीशान्तिनाथचरित्रे
महाप्रसाद इत्युक्वा निजस्थानमगादसी | आरक्षकनरास्ते च राजदूतेन वारिताः ॥ ५० ॥ भोजनं कारयित्वाऽथ तस्करोऽप्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद् भवान् पुनः ॥ ५१ सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिदु हितं स्वस्य प्रियाय ते ॥ ५२ ॥ अन्यश्च साधुना दत्तो भूतनिग्रहकारकः ।
मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया ॥ ५३ ॥ जग्गृहे प्रार्थनाभङ्गभीरुणा सार्थपेन सः ।
तस्करोऽपि तमापृच्छय ययौ स्वेप्सितहेतवे ॥ ५४ ॥ दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरोमसौ ॥ ५५ ॥ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्त्र प्रकर्तमारब्धा सामग्री भोजनादिका ॥ ५६ ॥ अत्रान्तरे च साधेशो व्याधमेकं ददर्श सः । कृष्णरक्तेक्षणं चापबाणव्यापृतपाणिकम् ॥ ५७ ॥ सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥ ५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । हास्ति पर्वते भिल्लपल्लोगिरिकुडङ्गिका ॥ ५८ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥ ६० ॥