________________
श्रीशान्तिनाथचरित्रे
अजीजनत् सुतं राज्ञी सम्पूर्णसमयेऽथ सा । प्रवाईतश्च भूपालश्टीभिः सुतजन्मना ॥ ८ ॥ आसप्तकुलवृत्त्या ताः सुतजन्मनिवेदिकाः । तोषयित्वा महीपालो वर्डापनमकारयत् ॥ ८ ॥ दृष्टं पञ्चदशस्वप्ने देव्या वज्रायुधं ततः । वज्रायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे ॥ १० ॥ अष्टवर्षप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः ॥ ११ ॥ संप्राप्तयौवनो राजकन्यां लक्ष्मीवतों वराम् । सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ १२ ॥ अनन्तवीर्यजीवोऽथ प्रच्युत्याच्युतकल्पतः । वज्रायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् ॥ १३ ॥ सहस्रायुधनामाऽसावपि संप्राप्तयौवनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् ॥ १४ ॥ भुञानस्य तया साई भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजने पुत्रः शतबलाभिधः ॥ १५ ॥ क्षेमकरनृपोऽन्येाः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे ॥ १६ ॥
(१) ख घ च ड -तः स कलाभ्यास-। (२) ग ज झ ठ ड लक्ष्मीवत्यां । (३) ङ ऽति-। (४) ङ छ पुत्रपौत्रप्रपौत्रयुक् । ह पुत्रपौत्र प्रपौत्रकः ।