________________
चतुर्थः प्रस्तावः ।
इतः पूर्वविदेहेऽत्र जम्बूद्वीपस्य मध्यगे । विजये मङ्गलावत्यभिधे सीतानदीतटे ॥ १ ॥ तीर्थङ्करादिपुरत्नमञ्चया रत्नमञ्चया । अस्ति मिडान्तविख्याता गाश्वता नगरी वरा ॥२॥ (युग्मम्) दुर्नीतिवारकत्वेन प्रजायाः क्षेमकारकः । तत्र नेमङ्करो जन्ने राजा तीर्थङ्करश्च सः ॥ ३ ॥ सतीत्वपादपाऽऽवाला सुविशाला गुणथिया । बभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया ॥ ४ ॥ अपराजितजीवोऽसौ हाविंगत्यर्णवस्थितः । अच्युतेन्द्रपदाचात्वा तस्याः कुक्षाववातरत् ॥ ५ ॥ चतुर्दश महास्वप्रा वचस्वप्नसमन्विता: ॥ दृष्टा देव्या तया रात्री चक्रभृज्जन्मसूचका: ॥ ६ ॥ कथितास्ते महीभर्तुः प्रभातोत्थितया तया । 'सुपुत्रजन्मकथनात् तेनाप्याऽऽह्वादिता मका ॥ ७ ॥
(१) गजट ण, -त्यतरस्थिते । (२) जद दृष्ट्वा । (३) ज सुपुत्रकथनातेन राज्ञाऽप्यालादिता सका। घठ -स्वकाः ।