________________
तृतीयः प्रस्तावः ।
धृत्वा केशेषु तां राजा प्रोचे रगड़े ! भविष्यमि । त्वमेवं कुर्वती हन्त भ्रातुर्मार्गानुयायिनो ॥ ६२ ॥ जल्पन्ती दोनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । हारमुद्दाय्य च क्षिप्रं निजं वाम समाययौ ॥ ६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । 'सवं समर्पयामास भवनं तद्दभञ्ज च ॥ ६४ ॥ आनीताः स्वस्वगेहेषु ताः स्त्रियस्तेन दस्युना । मोहिता न रतिं तत्र लेभिरे चञ्चलाशयाः ॥ ६५ ॥ मुहुर्मुहुर्व्रजन्ति स्म दस्युस्थाने ततो जनैः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिषक् ॥ ६६ ॥ सोऽवदद् दस्युचूर्णेन जाता एवं विधा इमाः । दत्त्वा स्वचूर्ण राजेन्द्र ! स्वभावस्थाः करोम्यहम् ॥ ६७ ॥ ततो राजाज्ञया तेन ताः कृता गतकार्मणाः । एका तु तदवस्थेवाऽऽचख्ये तदपि भूभुजा ॥ ६८ ॥ पृष्टोऽथ भिषगाचख्यौ देव! चूर्णेन योगिनः । कासाञ्चित् वामिता कृत्तिः कामाञ्चित् मांसशोणिते ॥ ६८ ॥ मर्वास्ताः प्रतिचूर्णन स्वभावस्थाः कृता मया । अस्यास्तु वासितास्तेनास्थिमज्जा अपि भूपते ! ॥ ७० ॥ यद्यसौ घर्षयित्वाऽस्य दस्योरस्थोनि पाय्यते ।
ततः संजायते राजन् ! स्वभावस्थाऽन्यथा न हि ॥ ७१ ॥
(१) घ च झ स सर्वमर्पयामास ।
१५८