________________
१५८
श्रीशान्तिनाथचरित्वे अहं तावन् मरिष्यामि शृणु त्वं मम भाषितम् । अस्ति देवकुलस्यास्य पृष्ठे पातालमन्दिरम् ॥ ५२ ॥ तत्रास्ति प्रचुरं द्रव्यं धनदेवी च मे खसा। अन्याश्च नायिकाः सन्ति नगर्या या मया हृताः ॥ ५३ ॥ अमुं च खड्नमादाय गच्छ त्वं तत्र सत्वरम् । आकारयेः स्वसारं मे शिलाया विवरण ताम् ॥ ५४ ॥ कथयेश्च मृति मेऽस्याः खड्गमेनं च दर्शयः । ततोऽसौ त्वत्प्रवेशाय हारमुद्दाटयिष्यति ॥ ५५ ॥ तत् सर्वं भवता ग्राह्यमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोय विपन्न: स मलिम्लुचः ॥ ५६ ॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ५७ ॥ विश्राम्यतु क्षणं तावत् पर्यङ्गेऽत्र भवानिति । भणित्वा भूपतिं हारं पिदधे तस्करवसा ॥ ५८ ॥ दृष्ट्वाऽवलोकयन्ती तां छन्नं छन्नं स्वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ५ ॥ खयं तस्थौ च दीपस्य छायायां मतिमानय । मुक्ता यन्त्रशिलां शय्यां बभन्न धनदेव्यसौ ॥ ६ ॥ ततः सा ददती ताला जजल्पवमहो मया । भव्यं कृतं यतो भ्राटवधको विनिपातितः ॥ ६१ ॥
(१) ग घ च ठ मत्ख ङ्ग-। (२) झ त्वद्वशा सद्यो ।