SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । १४३ अाभापि भावमधुरै. परिहाममनोहरैः । देशीभाषामगर्भश प्रियालाप: समभ्रमम् ॥ २५ ॥ पप्रच्छ माऽथ तत्पावऽनन्तवीयस्वरूपताम् । ततोऽपराजितोऽशंसत् तदग्रे तद्गुणानिति ॥ २६ ॥ रूपचातुर्यगाम्भीर्य वीर्योदार्यादिसदगुणाः । क्या ह्यनन्तवीर्यस्य शंसितुं नै कजिह्वया ॥ २७ ॥ (युग्मम्) किञ्च कुटिलः सरलाङ्गेन विश्रुतिः श्रुतिशालिना। शेषोऽपि निर्जितो येन क्षमाभृटु बिभ्रता क्षमाम् ॥ २८ ॥ सञ्जातरोमहर्षी तां दृष्ट्वा पुनरभाषत । यद्यस्ति कौतुकं तत्ते दर्शयाम्यधुनैव तम् ॥ २८ ॥ पामेति तकया प्रोक्ते तावभूतां स्वरूपिणी । दृष्ट्वा जगाद सा चाहं युष्मदानाकरी खलु ॥ ३० ॥ विष्णुः प्रोवाच यद्येवमेहि यामो निजां पुरीम् । जजल्प सा च मत्तातो विधाता वां पराभवम् ॥ ३१ ॥ R" भणिता सा ततस्ताभ्यां भेतव्यं न हि सर्वथा । आवयोः समरे नैष पुरः स्थातुं क्षणं क्षमः ॥ ३२ ॥ सड ञ ट ण द पुस्तकेषु भूयान् पाठभेद एषः भणिता मा ततस्ताभ्यां भेतव्यं सुभ ! न त्वया । श्रावां त्वज्जनकं जेतुं शक्नौ सबलवाहनम् ॥ ३२ ॥
SR No.009706
Book TitleShantinath Charita Part 02
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages105
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy