________________
१४२
श्रीशान्तिनाथचरित्रे
तावेवमूचतुर्भद्र ! युक्तां त्वं ननु जल्पसि । पालोचैतत् करिथावो याहि त्वं स्वामिनोऽन्तिके ॥ १४ ॥ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्य था। विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥ १५ ॥
आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरिष्याव इति चिन्तयतोस्तयोः ॥ १६ ॥ पूर्व जन्मसाधितास्ताः स्वयमेवोपतस्थिरे । शंसित्वा सिद्धमात्मानं विविशुश्च तदन्ति के ॥ १७॥(युग्मम्) जातौ विद्याधरौ तौ हौ तत्प्रभावान्महोजसी। विद्यानां चक्रतुश्चाचां गन्धमाल्यादिवस्तुभिः ॥ १८ ॥ अत्रान्तरे पुनर्दूत: प्राप्तस्तस्य महीपतेः । जजल्यैवमहो मृत्योरतिथी कि भविष्यथः ॥ १८ ॥ येन नाद्याऽपि चेट्यौ ते कृते प्रेषयथः प्रभोः। तावूचतुश्च कर्तव्यमवश्यं स्वामिनो हितम् ॥ २० ॥ ततस्तदुहितुः स्वर्ण श्रियो लोभन तावुभौ । चेट्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ २१ ॥ कलाकौशलमालोक्य भणितो तौ महीभुजा। युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ २२ ॥ यथौतुर्दग्धरक्षायां क्षुद्दान् सिद्धानरक्षण । हृष्टो भवेत् तथाऽभूतां तदादेशे नृपस्य तौ ॥ २३ ॥ सा कामग्रहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलोधैर्या विधिनेव विनिर्मिता ॥ २४ ॥