________________
प्रथमः प्रस्तावः ।
दृष्ट्वा च विद्युदुद्योतेनाङ्गमस्य जलार्दितम् ।
सैवं 'विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥ ३७ ॥ नूनं दृष्टिभयादेष गोपयित्वाऽम्बरे पथि ।
नग्न एव समायातो वृथाऽऽत्मानं प्रशंसति ॥ ३८ ॥ अनया चेष्टया नैष कुलीनोऽपि विभाव्यते । तदस्य गृहवासेन मम हन्त विडम्बना ॥ ३८ ॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥ ४० ॥ कपिलस्य पिता सोऽथ ब्राह्मणः कर्मदोषतः । बभूव विभवक्षोणो भूरिविद्याधनोऽपि सन् ॥ ४१ ॥ ज्ञात्वा विभूतिमन्तं तं कपिलं लोकपूजितम् । आगात्प्राघुणकोऽन्येद्युस्तद्गृहेऽसौ धनाशया ॥ ४२ ॥ भोजनावसरे सोऽथ विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिषान्तरम् ॥ ४३ ॥ ततस्तस्या विशेषेणाभवद्भान्तिर्मनोगता । रहः पृष्टश्च विप्रोऽसौ तया शपथपूर्वकम् ॥ ४४ ॥ किमयं तात युष्माकमङ्गजो वा परो न्विति । तेनाऽपि सर्वमेतस्यै तदाख्यातं यथातथम् ॥ ४५ ॥ दत्त्वा यथोचितं किञ्चिद्दिसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥ ४६ ॥
(१) क व्हिचि- ।