________________
श्रीशान्तिनाथचरित्र
योग्योऽयमिति तां तस्मा उपाध्यायो ददौ मुताम् । रममाणस्तया साई तत्रास्थात्कपिल: सुखम् ॥ २७॥ उपाध्यायस्य मान्योऽयमिति लोकैरपूज्यत । विद्दत्कथासु सर्वत्र क्रियते स्म निदर्शनम् ॥ २८ ॥ जगज्जीवातुधान्यौघटणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत् ॥ २८ ॥ तस्मिंश्च समयेऽन्येद्यः कौतुको कपिलो ययौ। रात्री प्रेक्षणकालोककृते देवकुलादिषु ॥ ३० ॥ महत्यामथ यामिन्यामन्धकार निरन्तरे । वर्षत्यम्बुधरे गेहमागच्छन् ‘स व्यचिन्तयत् ॥ ३१ ॥ मार्गो निःसञ्चरस्तावत्तमसाऽन्तरितेक्षणम् । विश्वं प्रवर्त्तते तत्किं वस्त्रे आीकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससी। स सत्त्वरमुपेयाय नग्नीभूतो निजे रहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश ग्रहान्तरे । तद्भार्या तं बभाषे ऽथ ढौकयित्वाऽन्यवाससी ॥ ३४ ॥ अग्रेतने जलक्लिन्ने मुञ्च त्वं नाथ चीवरे । इमे च परिधहीति भणितः कपिलो ऽब्रवीत् ॥ ३५ ॥ पश्य प्रिये नहि लिने मन्त्रशक्त्या ममाम्बरे । करस्पर्शात्तत्प्रियाऽपि ते विवेद तथाविधे ॥ ३६ ॥
(१) क सोऽप्यचिन्तयत् ।