SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ६ श्रीशान्तिनाथ चरित्रे अत्रान्तरे केवलिना प्रारब्धा धर्मदेशना । कृतभव्यजनश्रोत्र सुधापूरप्रदेशना ॥ १५ ॥ तद्यथा रागद्देषवशीभूता दुराकूतास्तनूभृतः । नयन्त्यनयंकं जन्म कृत्वाऽनर्थपरम्पराम् ॥ १६ ॥ न मोक्षप्रापण शक्ता याभ्यां विहितबन्धमाः । रागहेषावमू शत्रू यूयं त्यजत भो जनाः ॥ १७ ॥ श्रुत्वा तां देशनां सम्यक प्रतिबुद्धा तृणां गणाः । केचिदाददिरे दीक्षां श्रावकत्वं तथाऽपरे ॥ १८ ॥ पप्रच्छाशनिघोषस्तं सुतारयं मया प्रभो। रागोट्रेकं विना हृत्वा नीता निजग्टहे कथम् ॥ १८ ॥ केवल्यचे पूर्वभवे पुरे रत्नपुराभिधे । श्रोषेणनामा भूपोऽभूत् जीवोऽस्यामिततेजसः ॥ २० ॥ इत्यादि तद्भवान् सर्वान् कथयित्वाऽब्रवीत्पुनः । तदाऽभूः कपिलस्त्वं हि सत्यभामा च त्वप्रिया ॥ २१ ॥ सत्यभामा सुतारेयं संजाता कपिलस्तु सः । भवं भ्रान्त्वा मनुष्यत्वं कुले लब्धा तपस्विनाम् ॥ २२ ॥ कृत्वा बालस्तपस्तत्र मृत्वाऽभूस्त्वं ततस्त्वया। जङ्गे पूर्वस्वसम्बन्धाद्राजन् रागं विनाऽप्यसी ॥२३॥ (युग्मम्) त्वय्यसो विगतस्नेहा पुरातनभवेऽप्यभूत् । अतस्त्वमपि मन्दानुरागोऽस्यां हि प्रवर्त्तमे ॥ २४ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy