________________
श्रीशान्तिनाथचरित्र
जचश्व मन्त्रिण: स्वामिन् यद्येतत्संमतं तव । तदाभिवको यक्षस्य प्रतिमाया विधास्यते ॥ ५२ ॥ चेद्देवतानुभावन न स्यादापत्ततो वरम् । नो चेत्काष्ठमयी यक्षप्रतिमेव विनश्यति ॥ ५३ ॥ राजाऽथ युक्तमित्यत्वा गत्वा च जिनमन्दिरे । सर्वान्तःपुरसंयुक्तः प्रपदे पोषधव्रतम् ॥ ५४ ॥ मंस्तारकनिषणश्च तपोनियमसंयमः । पूतात्मा मुनिवत्तस्थौ नमस्कारपरायणः ॥ ५५ ॥ अन्ये च मन्त्रिसामन्तप्रमुखाः भूपते: पदे। निवेश्य यक्षप्रतिमा तस्थुत्तस्याः समीपगा: ॥ ५६ ॥ ततः सप्तमे घस्रेऽब्दैः क्षणाद् व्याप्त नभस्तलम् । ववर्ष च घनो गर्जारवव्याप्तदिगन्तरः ॥ ५७ ॥ मुहुविद्योतमानोऽथ विद्युद्दण्डस्तथाऽपतत् । तस्मिन्नेव यक्षबिम्बे निर्भाग्ये यमदण्डवत् ॥ ५८ ॥ तत्रोपसर्गे तेनैव विधिना प्रलयं गते । नैमित्तिकगिरा राजा पुनरागान्निजं एहम् ॥ ५८ ॥ सर्वान्तःपुरनारीभिर्हष्टचित्ताभिरर्चितः । वस्त्रालङ्काररत्नोधैः म नैमित्तिकपुङ्गवः ॥ ६० । राज्ञाऽपि भूरि द्रव्येणार्चितो विसरजे च सः । यक्षस्य प्रतिमा रत्नमयी नव्या च कारिता ॥ ६१ ॥ पूजा च जिनबिम्बानां यःसन्ततिकारिणी। राज्ये पुनर्जन्मनीव स्वस्याकारि तथोत्सवः ॥ ६२ ॥