SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्र तत्राचार्य नमस्कृत्योपविश्य च यथास्थिति। शुश्राव देशनां तस्य मोहनिद्राविनाशनीम् ॥ १० ॥ पप्रच्छावसरे चैवं भगवन् विश्वविश्रतः । मत्कनिष्ठो गुणे ज्येष्ठस्त्रिपृष्ठः कां गतिं गतः ॥ ११ ॥ मूरिरूचे स नृशंसः पञ्चेन्द्रियवधे रतः । महारम्भपरो मृत्वा सप्तमं नरकं ययौ ॥ १२ ॥ तच्छ्रुत्वा विललापैवमचल: स्नेहमोहितः । हा विश्ववौर हा धीर किं तेऽभूहतिरीदृशी ॥ १३ ॥ गुरुणोक्तं मा विषीद शृणु पूर्वजिनोदितम् । यदस्य चरमो जीवो भविताऽत्र जिनेश्वरः ॥ १४ ॥ ततः श्रीविजयं राज्ये यौवराज्येऽपरं सुतम् । निवेश्य बलभद्रोऽस्य गुरोः पार्वेऽग्रहीद्दतम् ॥ १५ ॥ राज्ञः श्रीविजयस्याथ राज्यं पालयत: सतः । सभास्थस्यान्यदाऽऽगल्य प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥ प्रभो त्वमन्दिरहारे त्वद्दर्शनसमुत्सकः । अस्ति नैमित्तिको नाम स आयातु प्रयातु वा ॥ १७ ॥ ततो राज्ञोऽनुमत्याऽसौ तेनानीतः सभान्तरे । दत्त्वाऽऽशीर्वचनं तस्मै यथासनमुपाविशत् ॥ १८ ॥ राजा प्रोवाच ज्ञानेन यत्पश्यसि शुभाशुभम् । तत्त्वं ब्रूहि निमित्तन करे यत्तेऽस्ति पुस्तिका ॥ १८ ॥ सोऽवदद्देव पश्यामि यदहं निजब्रह्मणा । तहक्तमपि नो शक्यं कथ्यते तु वदाजया ॥ २० ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy